top of page

००५ । मुण्डकोपनिषत्


मुण्डकोपनिषत्


॥ श्रीः ॥


॥ मुण्डकोपनिषत् ॥


ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥


स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥


॥ ॐ शान्तिः शान्तिः शान्तिः ॥


॥ ॐ ब्रह्मणे नमः ॥



॥ प्रथममुण्डके प्रथमः खण्डः ॥


ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता

भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय

ज्येष्ठपुत्राय प्राह ॥ १॥


अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तं

पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।

स भारद्वाजाय सत्यवाहाय प्राह

भारद्वाजोऽङ्गिरसे परावराम् ॥ २॥


शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ ।

कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३॥


तस्मै स होवाच ।

द्वे विद्ये वेदितव्ये इति ह स्म

यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४॥


तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः

शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ।

अथ परा यया तदक्षरमधिगम्यते ॥ ५॥


यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण-

मचक्षुःश्रोत्रं तदपाणिपादम् ।

नित्यं विभुं सर्वगतं सुसूक्ष्मं

तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६॥


यथोर्णनाभिः सृजते गृह्णते च

यथा पृथिव्यामोषधयः संभवन्ति ।

यथा सतः पुरुषात्केशलोमानि

तथाऽक्षरात्संभवतीह विश्वम् ॥ ७॥


तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।

अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८॥


यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।

तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥ ९॥


॥ इति मुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥


॥ प्रथममुण्डके द्वितीयः खण्डः ॥


तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो

यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि ।

तान्याचरथ नियतं सत्यकामा एष वः

पन्थाः सुकृतस्य लोके ॥ १॥


यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।

तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत् ॥ २॥ (प्रतिपादयेच्छ्रद्धया हुतम्)


यस्याग्निहोत्रमदर्शमपौर्णमास-

मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च ।

अहुतमवैश्वदेवमविधिना हुत-

मासप्तमांस्तस्य लोकान् हिनस्ति ॥ ३॥


काली कराली च मनोजवा च

सुलोहिता या च सुधूम्रवर्णा ।

स्फुलिङ्गिनी विश्वरुची च देवी

लेलायमाना इति सप्त जिह्वाः ॥ ४॥


एतेषु यश्चरते भ्राजमानेषु यथाकालं

चाहुतयो ह्याददायन् ।

तं नयन्त्येताः सूर्यस्य रश्मयो यत्र (तन्नयन्त्येताः)

देवानां पतिरेकोऽधिवासः ॥ ५॥


एह्येहीति तमाहुतयः सुवर्चसः

सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।

प्रियां वाचमभिवदन्त्योऽर्चयन्त्य

एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६॥


प्लवा ह्येते अदृढा यज्ञरूपा

अष्टादशोक्तमवरं येषु कर्म ।

एतच्छ्रेयो येऽभिनन्दन्ति मूढा

जरामृत्युं ते पुनरेवापि यन्ति ॥ ७॥


अविद्यायामन्तरे वर्तमानाः

स्वयं धीराः पण्डितंमन्यमानाः ।

जङ्घन्यमानाः परियन्ति मूढा

अन्धेनैव नीयमाना यथान्धाः ॥ ८॥


अविद्यायां बहुधा वर्तमाना वयं

कृतार्था इत्यभिमन्यन्ति बालाः ।

यत्कर्मिणो न प्रवेदयन्ति रागा-

त्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९॥


इष्टापूर्तं मन्यमाना वरिष्ठं

नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।

नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं

लोकं हीनतरं वा विशन्ति ॥ १०॥


तपःश्रद्धे ये ह्युपवसन्त्यरण्ये

शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः ।

सूर्यद्वारेण ते विरजाः प्रयान्ति

यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११॥


परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो

निर्वेदमायान्नास्त्यकृतः कृतेन ।

तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्

समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२॥


तस्मै स विद्वानुपसन्नाय सम्यक्

प्रशान्तचित्ताय शमान्विताय ।

येनाक्षरं पुरुषं वेद सत्यं प्रोवाच

तां तत्त्वतो ब्रह्मविद्याम् ॥ १३॥


॥ इति मुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥



॥ द्वितीय मुण्डके प्रथमः खण्डः ॥


तदेतत्सत्यं

यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः

सहस्रशः प्रभवन्ते सरूपाः ।

तथाऽक्षराद्विविधाः सोम्य भावाः

प्रजायन्ते तत्र चैवापियन्ति ॥ १॥


दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ।

अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥ २॥


एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।

खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३॥


अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ

दिशः श्रोत्रे वाग्विवृताश्च वेदाः ।

वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां

पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४॥


तस्मादग्निः समिधो यस्य सूर्यः

सोमात्पर्जन्य ओषधयः पृथिव्याम् ।

पुमान् रेतः सिञ्चति योषितायां

बह्वीः प्रजाः पुरुषात्संप्रसूताः ॥ ५॥


तस्मादृचः साम यजूꣳषि दीक्षा

यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।

संवत्सरश्च यजमानश्च लोकाः

सोमो यत्र पवते यत्र सूर्यः ॥ ६॥


तस्माच्च देवा बहुधा संप्रसूताः

साध्या मनुष्याः पशवो वयाꣳसि ।

प्राणापानौ व्रीहियवौ तपश्च

श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७॥


सप्त प्राणाः प्रभवन्ति तस्मा-

त्सप्तार्चिषः समिधः सप्त होमाः ।

सप्त इमे लोका येषु चरन्ति प्राणा

गुहाशया निहिताः सप्त सप्त ॥ ८॥


अतः समुद्रा गिरयश्च सर्वेऽस्मा-

त्स्यन्दन्ते सिन्धवः सर्वरूपाः ।

अतश्च सर्वा ओषधयो रसश्च

येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९॥


पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।

एतद्यो वेद निहितं गुहायां

सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १०॥


॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके प्रथमः खण्डः ॥


॥ द्वितीय मुण्डके द्वितीयः खण्डः ॥


आविः संनिहितं गुहाचरं नाम

महत्पदमत्रैतत्समर्पितम् ।

एजत्प्राणन्निमिषच्च यदेतज्जानथ

सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥ १॥


यदर्चिमद्यदणुभ्योऽणु च

यस्मिँल्लोका निहिता लोकिनश्च ।

तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः

तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २॥


धनुर्गृहीत्वौपनिषदं महास्त्रं

शरं ह्युपासानिशितं संधयीत । (संदधीत)

आयम्य तद्भावगतेन चेतसा

लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३॥


प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।

अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ४॥


यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं

मनः सह प्राणैश्च सर्वैः ।

तमेवैकं जानथ आत्मानमन्या वाचो

विमुञ्चथामृतस्यैष सेतुः ॥ ५॥


अरा इव रथनाभौ संहता यत्र नाड्यः ।

स एषोऽन्तश्चरते बहुधा जायमानः ।

ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः

पाराय तमसः परस्तात् ॥ ६॥ (पराय)


यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि ।

दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ (संप्रतिष्ठितः)


मनोमयः प्राणशरीरनेता

प्रतिष्ठितोऽन्ने हृदयं संनिधाय ।

तद्विज्ञानेन परिपश्यन्ति धीरा

आनन्दरूपममृतं यद्विभाति ॥ ७॥


भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ८॥


हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।

तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ ९॥


न तत्र सूर्यो भाति न चन्द्रतारकं

नेमा विद्युतो भान्ति कुतोऽयमग्निः ।

तमेव भान्तमनुभाति सर्वं

तस्य भासा सर्वमिदं विभाति ॥ १०॥


ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण ।

अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ ११॥


॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ॥



॥ तृतीय मुण्डके प्रथमः खण्डः ॥


द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।

तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ १॥


समाने वृक्षे पुरुषो निमग्नो-

ऽनीशया शोचति मुह्यमानः ।

जुष्टं यदा पश्यत्यन्यमीश-

मस्य महिमानमिति वीतशोकः ॥ २॥


यदा पश्यः पश्यते रुक्मवर्णं

कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।

तदा विद्वान् पुण्यपापे विधूय

निरञ्जनः परमं साम्यमुपैति ॥ ३॥


प्राणो ह्येष यः सर्वभूतैर्विभाति

विजानन् विद्वान् भवते नातिवादी ।

आत्मक्रीड आत्मरतिः क्रियावा-

नेष ब्रह्मविदां वरिष्ठः ॥ ४॥


सत्येन लभ्यस्तपसा ह्येष आत्मा

सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।

अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो

यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५॥


सत्यमेव जयते नानृतं (जयति)

सत्येन पन्था विततो देवयानः ।

येनाक्रमन्त्यृषयो ह्याप्तकामा

यत्र तत्सत्यस्य परमं निधानम् ॥ ६॥


बृहच्च तद्दिव्यमचिन्त्यरूपं

सूक्ष्माच्च तत्सूक्ष्मतरं विभाति ।

दूरात्सुदूरे तदिहान्तिके च

पश्यत्स्विहैव निहितं गुहायाम् ॥ ७॥


न चक्षुषा गृह्यते नापि वाचा

नान्यैर्देवैस्तपसा कर्मणा वा ।

ज्ञानप्रसादेन विशुद्धसत्त्व-

स्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ८॥


एषोऽणुरात्मा चेतसा वेदितव्यो

यस्मिन्प्राणः पञ्चधा संविवेश ।

प्राणैश्चित्तं सर्वमोतं प्रजानां

यस्मिन्विशुद्धे विभवत्येष आत्मा ॥ ९॥


यं यं लोकं मनसा संविभाति

विशुद्धसत्त्वः कामयते यांश्च कामान् ।

तं तं लोकं जयते तांश्च कामां-

स्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः ॥ १०॥


॥ इति मुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥


॥ तृतीयमुण्डके द्वितीयः खण्डः ॥


स वेदैतत्परमं ब्रह्म धाम

यत्र विश्वं निहितं भाति शुभ्रम् ।

उपासते पुरुषं ये ह्यकामास्ते

शुक्रमेतदतिवर्तन्ति धीराः ॥ १॥


कामान् यः कामयते मन्यमानः

स कामभिर्जायते तत्र तत्र ।

पर्याप्तकामस्य कृतात्मनस्तु

इहैव सर्वे प्रविलीयन्ति कामाः ॥ २॥


नायमात्मा प्रवचनेन लभ्यो

न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्य-

स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३॥ (आत्मा वृणुते)


नायमात्मा बलहीनेन लभ्यो

न च प्रमादात्तपसो वाप्यलिङ्गात् ।

एतैरुपायैर्यतते यस्तु विद्वां-

स्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ४॥


संप्राप्यैनमृषयो ज्ञानतृप्ताः

कृतात्मानो वीतरागाः प्रशान्ताः ।

ते सर्वगं सर्वतः प्राप्य धीरा

युक्तात्मानः सर्वमेवाविशन्ति ॥ ५॥


वेदान्तविज्ञानसुनिश्चितार्थाः

संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।

ते ब्रह्मलोकेषु परान्तकाले

परामृताः परिमुच्यन्ति सर्वे ॥ ६॥


गताः कलाः पञ्चदश प्रतिष्ठा

देवाश्च सर्वे प्रतिदेवतासु ।

कर्माणि विज्ञानमयश्च आत्मा

परेऽव्यये सर्वे एकीभवन्ति ॥ ७॥


यथा नद्यः स्यन्दमानाः समुद्रे-

ऽस्तं गच्छन्ति नामरूपे विहाय ।

तथा विद्वान् नामरूपाद्विमुक्तः

परात्परं पुरुषमुपैति दिव्यम् ॥ ८॥


स यो ह वै तत्परमं ब्रह्म वेद

ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति ।

तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो

विमुक्तोऽमृतो भवति ॥ ९॥


तदेतदृचाऽभ्युक्तम् ।

क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः

स्वयं जुह्वत एकर्षिं श्रद्धयन्तः ।

तेषामेवैतां ब्रह्मविद्यां वदेत

शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥ १०॥


तदेतत्सत्यमृषिरङ्गिराः

पुरोवाच नैतदचीर्णव्रतोऽधीते ।

नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११॥


॥ इति मुण्डकोपनिषदि तृतीयमुण्डके द्वितीयः खण्डः ॥


ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥


स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥


॥ ॐ शान्तिः शान्तिः शान्तिः ॥


॥ इत्यथर्ववेदीय मुण्डकोपनिषत्समाप्ता ॥

10 次查看0 則留言

相關文章

查看全部

०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथ

०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनू

०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैर

Comments


bottom of page