top of page

०१० । बृहदारण्यकोपनिषत् । द्वितीयोऽध्यायः

अथ द्वितीयोऽध्यायः ।



अथ प्रथमं ब्राह्मणम् ।


मन्त्र १[II.i.1]

ॐ दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यं

ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो

जनको जनक इति वै जना धावन्तीति ॥ १॥


मन्त्र २[II.i.2]

स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । अतिष्ठाः सर्वेषां

भूतानां मूर्धा राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते

ऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २॥


मन्त्र ३[II.i.3]

स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । बृहन् पाण्डरवासाः

सोमो राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्तेऽहरहर्ह

सुतः प्रसुतो भवति नास्यान्नं क्षीयते ॥ ३॥


मन्त्र ४[II.i.4]

स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठास्तेजस्वीति वा अहमेतमुपास

इति । स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा

भवति ॥ ४॥


मन्त्र ५[II.i.5]

स होवाच गार्ग्यो य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः । पूर्णमप्रवर्तीति

वा अहमेतमुपास इति । स य एतमेवमुपास्ते पूर्यते प्रजया

पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ ५॥


मन्त्र ६[II.i.6]

स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास

इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । इन्द्रो

वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते

जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६॥


मन्त्र ७[II.i.7]

स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । विषासहिरिति

वा अहमेतमुपास इति । स य एतमेवमुपास्ते विषासहिर्ह भवति

विषासहिर्हास्य प्रजा भवति ॥ ७॥


मन्त्र ८[II.i.8]

स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास

इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः । प्रतिरूप

इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते प्रतिरूपꣳ

हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते ॥ ८॥


मन्त्र ९[II.i.9]

स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । रोचिष्णुरिति

वा अहमेतमुपास इति । स य एतमेवमुपास्ते रोचिष्णुर्ह

भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः सन्निगच्छति

सर्वाꣳस्तानतिरोचते ॥ ९॥


मन्त्र १०[II.i.10]

स होवाच गार्ग्यो य एवायं यन्तं पश्चाछब्दोऽनूदेत्येतमेवाहं

ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । असुरिति

वा अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वꣳ हैवास्मिꣳल्लोक

आयुरेति नैनं पुरा कालात्प्राणो जहाति ॥ १०॥


मन्त्र ११[II.i.11]

स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति ।

स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । द्वितीयोऽनपग इति

वा अहमेतमुपास इति । स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्

गणश्छिद्यते ॥ ११॥


मन्त्र १२[II.i.12]

स होवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास

इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । मृत्युरिति वा

अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वꣳ हैवास्मिꣳल्लोक

आयुरेति नैनं पुरा कालान्मृत्युरागच्छति ॥ १२॥


मन्त्र १३[II.i.13]

स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति । स

होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति ।

स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति ।

स ह तूष्णीमास गार्ग्यः ॥ १३॥


मन्त्र १४[II.i.14]

स होवाचाजातशत्रुरेतावन्नू ३ इत्येतावद्धीति । नैतावता विदितं

भवतीति । स होवाच गार्ग्य उप त्वा यानीति ॥ १४॥


मन्त्र १५[II.i.15]

स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः

क्षत्रियमुपेयाद् ब्रह्म मे वक्ष्यतीति । व्येव त्वा

ज्ञपयिष्यामीति । तं पाणावादायोत्तस्थौ । तौ ह पुरुषꣳ

सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयांचक्रे बृहन्पाण्डरवासः

सोम राजन्निति । स नोत्तस्थौ । तं पाणिनाऽऽपेषं बोधयांचकार ।

स होत्तस्थौ ॥ १५॥


मन्त्र १६[II.i.16]

स होवाचाजातशत्रुर्यत्रैष एतत् सुप्तोऽभूद् य एष विज्ञानमयः

पुरुषः क्वैष तदाऽभूत् कुत एतदागादिति । तदु ह न मेने गार्ग्यः ॥ १६॥


मन्त्र १७[II.i.17]

स होवाचाजातशत्रुर्यत्रैष एतत्।सुप्तोऽभूद् य एष विज्ञानमयः

पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय

आकाशस्तस्मिञ्छेते । तानि यदा गृह्णाति अथ हैतत्पुरुषः

स्वपिति नाम । तद्गृहीत एव प्राणो भवति गृहीता वाग् गृहीतं

चक्षुर्गृहीतꣳ श्रोत्रं गृहीतं मनः ॥ १७॥


मन्त्र १८[II.i.18]

स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो

भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति । स यथा

महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष

एतत्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८॥ गृहीत्वा

स्वे शरीरे यथाकामम् परिवर्तते


मन्त्र १९[II.i.19]

अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो

द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः

प्रत्यवसृप्य पुरीतति शेते । स यथा कुमारो वा महाराजो वा

महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥ १९॥


मन्त्र २०[II.i.20]

स यथोर्णभिस्तन्तुनोच्चरेद् यथाऽग्नेः क्षुद्रा विष्फुलिङ्गा

व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे

देवाः सर्वाणि भूतानि व्युच्चरन्ति । सर्वे ॥। व्युच्चरन्ति

तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ २०॥


इति प्रथमं ब्राह्मणम् ॥


अथ द्वितीयं ब्राह्मणम् ।


मन्त्र १[II.ii.1]

यो ह वै शिशुꣳ साधानꣳ सप्रत्याधानꣳ सस्थूणꣳ

सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्ध्ययं वाव

शिशुर्योऽयं मध्यमः प्राणस्तस्येदमेवाऽऽधानमिदं प्रत्याधानं

प्राणः स्थूणाऽन्नं दाम ॥ १॥


मन्त्र २[II.ii.2]

तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्षꣳल्लोहिन्यो

राजयस्ताभिरेनꣳ रुद्रोऽन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो

या कनीनका तयाऽऽदित्यो यत्कृष्णं, तेनाग्निर्यच्छुक्लं तेनेन्द्रो

ऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया । नास्यान्नं

क्षीयते य एवं वेद ॥ २॥


मन्त्र ३[II.ii.3]

तदेष श्लोको भवति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो

निहितं विश्वरूपम् । तस्याऽऽसत ऋषयः सप्त तीरे वागष्टमी

ब्रह्मणा संविदानेति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिरः

एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः । तस्मिन्यशो निहितं

विश्वरूपमिति प्राणा वै यशो निहितं विश्वरूपं प्राणानेतदाह ।

तस्याऽऽसत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणाणेतदाह ।

वागष्टमी ब्रह्मणा संविदानेति वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ ३॥


मन्त्र ४[II.ii.4]

इमावेव गोतमभरद्वाजावयमेव गोतमोऽयं भरद्वाज इमावेव

विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव

वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचा

ह्यन्नमद्यतेऽत्तिर्ह वै नामैतद्यदत्रिरिति । सर्वस्यात्ता भवति

सर्वमस्यान्नं भवति य एवं वेद ॥ ४॥


इति द्वितीयं ब्राह्मणम् ॥


अथ तृतीयं ब्राह्मणम् ।


मन्त्र १[II.iii.1]

द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च

स्थितं च यच्च सच्च त्यच्च ॥ १॥


मन्त्र २[II.iii.2]

तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितं

एतत्सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य

सत एष रसो य एष तपति सतो ह्येष रसः ॥ २॥


मन्त्र ३[II.iii.3]

अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यत्

तस्यैतस्यामूर्तस्यै तस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो

य एष एतस्मिन्मण्डले पुरुषस्तस्य ह्येष रस । इत्यधिदैवतम् ॥ ३॥


मन्त्र ४[II.iii.4]

अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश

एतन्मर्त्यमेतत्स्थितमेतत्सत् तस्यैतस्य मूर्तस्यै तस्य

मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष

रसः ॥ ४॥


मन्त्र ५[II.iii.5]

अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यद्

एतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष

रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्य ह्येष रसः ॥ ५॥


मन्त्र ६[II.iii.6]

तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं

यथेन्द्रगोपो यथाऽग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तꣳ ।

सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदा थात आदेशो

नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्त्यथ नामधेयꣳ सत्यस्य

सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६॥


इति तृतीयं ब्राह्मणम् ॥


अथ चतुर्थं ब्राह्मणम् ।


मन्त्र १[II.iv.1]

मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि ।

हन्त तेऽनया कात्यायन्याऽन्तं करवाणीति ॥ १॥


मन्त्र २[II.iv.2]

सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन

पूर्णा स्यात् कथं तेनामृता स्यामिति । नेति होवाच याज्ञवल्क्यो

यथैवोपकरणवतां जीवितं तथैव ते जीवितꣳ स्यादमृतत्वस्य

तु नाऽऽशाऽस्ति वित्तेनेति ॥ २॥


मन्त्र ३[II.iv.3]

सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव

भगवान्वेद तदेव मे ब्रूहीति ॥ ३॥


मन्त्र ४[II.iv.4]

स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषस एह्यास्स्व

व्याख्यास्यामि ते । व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४॥


मन्त्र ५[II.iv.5]

स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय

पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु

कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया

भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य

कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।

न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय

ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं

भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां

कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न

वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया

भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु

कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं

भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः

श्रोतव्यो मन्तव्यो निदिध्यासितव्यो । मैत्रेय्यात्मनो वा अरे दर्शनेन

श्रवणेन मत्या विज्ञानेनेदꣳ सर्वं विदितम् ॥ ५॥


मन्त्र ६[II.iv.6]

ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद क्षत्रं तं

परादाद्योऽन्यत्राऽऽत्मनः क्षत्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो

लोकान्वेद देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद भूतानि तं

परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद् योऽन्यत्रात्मनः

सर्वं वेदेदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदꣳ

सर्वं यदयमात्मा ॥ ६॥


मन्त्र ७[II.iv.7]

स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय

दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ७॥


मन्त्र ८[II.iv.8]

स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय

शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ८॥


मन्त्र ९[II.iv.9]

स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय

वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९॥


मन्त्र १०[II.iv.10]

स यथाऽऽर्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येवं

वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद् यदृग्वेदो यजुर्वेदः

सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः

सूत्राण्यनुव्याख्यानानि व्याख्यानान्य्सामवेदसथर्वाङ्गिरससितिहासस्पुराणं

विद्यासुपनिषदस्श्लोकास्सूत्राणि अनुव्याख्यानानि व्याख्याननि अस्यैवैतानि

निःश्वसितानि ॥ १०॥


मन्त्र ११[II.iv.11]

स यथा सर्वासामपाꣳ समुद्र एकायनमेवꣳ सर्वेषाꣳ

स्पर्शानां त्वगेकायनमेवꣳ सर्वेषां गन्धानां नासिकैकायनं

एवꣳ सर्वेषाꣳ रसानां जिह्वैकायनमेवꣳ सर्वेषाꣳ

रूपाणां चक्षुरेकायनमेवꣳ सर्वेषाꣳ शब्दानाꣳ

श्रोत्रमेकायनमेवꣳ सर्वेषाꣳ सङ्कल्पानां मन एकायनं

एवꣳ सर्वासां विद्यानाꣳ हृदयमेकायनमेवꣳ सर्वेषां

कर्मणाꣳ हस्तावेकायनमेवꣳ सर्वेषामानन्दानामुपस्थ एकायनं

एवꣳ सर्वेषां विसर्गाणां पायुरेकायनमेवꣳ सर्वेषामध्वनां

पादावेकायनमेवꣳ सर्वेषां वदानां वागेकायनम् ॥ ११॥


मन्त्र १२[II.iv.12]

स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न

हास्योद्ग्रहणायेव न हास्योद्ग्रहणायैव स्याद् यतो यतस्त्वाददीत

लवणमेवैवं वा अर इदं महद् भूतमनन्तमपारं विज्ञानघन

एवैतेभ्यो भूतेभ्यः समुत्थाय एतेभ्यस्भूतेभ्यस्समुत्थाय

तान्येवानुविनश्यति न प्रेत्य सञ्ज्ञाऽस्तीत्यरे ब्रवीमीति होवाच

याज्ञवल्क्यः ॥ १२॥


मन्त्र १३[II.iv.13]

सा होवाच मैत्रेय्यत्रैव मा भगवानमूमुहद् न प्रेत्य सञ्ज्ञाऽस्तीति ।

स होवाच न वा अरेऽहं मोहं ब्रवीम्यलं वा अर इदं विज्ञानाय ॥ १३॥


मन्त्र १४[II.iv.14]

यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं

पश्यति तदितर इतरꣳ श‍ृणोति तदितर इतरमभिवदति तदितर

इतरं मनुते तदितर इतरं विजानाति । यत्र वा अस्य सर्वमात्मैवाभूत्

तत्केन कं जिघ्रेत् तत्केन कं पश्येत् तत्केन कꣳ श‍ृणुयात् तत्केन

कमभिवदेत् तत्केन कं मन्वीत तत्केन कं विजानीयात् । येनेदꣳ

सर्वं विजानाति तं केन विजानीयाद् विज्ञातारमरे केन विजानीयादिति ॥ १४॥


इति चतुर्थं ब्राह्मणम् ॥


अथ पञ्चमं ब्राह्मणम् ।


मन्त्र १[II.v.1]

इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि

भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः

पुरुषो यश्चायमध्यात्मꣳ शारीरस्तेजोमयोऽमृतमयः पुरुषः

अमृतमयस्पुरुषसयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ

सर्वम् ॥ १॥


मन्त्र २[II.v.2]

इमा आपः सर्वेषां भूतानां मध्वसामपाꣳ सर्वाणि भूतानि मधु

यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषः यश्चायमध्यात्मꣳ

रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं

इदं ब्रह्मेदꣳ सर्वम् ॥ २॥


मन्त्र ३[II.v.3]

अयमग्निः सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु

यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं

वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं

इदं ब्रह्मेदꣳ सर्वम् ॥ ३॥


मन्त्र ४[II.v.4]

अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः सर्वाणि भूतानि मधु

यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं

प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतम्।

इदं ब्रह्मेदꣳ सर्वम् ॥ ४॥


मन्त्र ५[II.v.5]

अयमादित्यः सर्वेषां भूतानां मध्वस्याऽऽदित्यस्य सर्वाणि

भूतानि मधु यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो

यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव

स योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ ५॥


मन्त्र ६[II.v.6]

इमा दिशः सर्वेषां भूतानां मध्वासां दिशाꣳ सर्वाणि भूतानि मधु

यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मꣳ

श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स

योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ ६॥


मन्त्र ७[II.v.7]

अयं चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि

भूतानि मधु यश्चायमस्मिंश्चन्द्रे तेजोमयोऽमृतमयः पुरुषो

यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स

योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ ७॥


मन्त्र ८[II.v.8]

इयं विद्युत्सर्वेषां भूतानं मध्वस्यै विद्युतः सर्वाणि भूतानि मधु

यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं

तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं

इदं ब्रह्मेदꣳ सर्वम् ॥ ८॥


मन्त्र ९[II.v.9]

अयꣳ स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तनयित्नोः सर्वाणि

भूतानि मधु यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो

यश्चायमध्यात्मꣳ शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषो

ऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ ९॥


मन्त्र १०[II.v.10]

अयमाकाशः सर्वेषां भूतानां मध्वस्याऽऽकाशस्य सर्वाणि

भूतानि मधु यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो

यश्चायमध्यात्मꣳ हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषः

ऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ १०॥


मन्त्र ११[II.v.11]

अयं धर्मः सर्वेषां भूतानां मध्वस्य धर्मस्य सर्वाणि भूतानि मधु

यश्चायमस्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं

धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं

इदं ब्रह्मेदꣳ सर्वम् ॥ ११॥


मन्त्र १२[II.v.12]

इदꣳ सत्यꣳ सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि

भूतानि मधु यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो

यश्चायमध्यात्मꣳ सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स

योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ १२॥


मन्त्र १३[II.v.13]

इदं मानुषꣳ सर्वेषां भूतानां मध्वस्य मानुषस्य सर्वाणि

भूतानि मधु यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो

यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स

योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ १३॥


मन्त्र १४[II.v.14]

अयमात्मा सर्वेषां भूतानां मध्वस्याऽऽत्मनः सर्वाणि भूतानि मधु

यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा

तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं

ब्रह्मेदꣳ सर्वम् ॥ १४॥


मन्त्र १५[II.v.15]

स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानाꣳ

राजा । तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता

एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः

सर्व एत आत्मानः समर्पिताः ॥ १५॥


मन्त्र १६[II.v.16]

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । उवाच

तदेतदृषिः पश्यन्नवोचत् । तद्वां नरा सनये दꣳस उग्रं

आविष्कृणोमि तन्यतुर्न वृष्टिम् । दध्यङ् ह यन्मध्वाथर्वणो वां

अश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ १६॥


मन्त्र १७[II.v.17]

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः

पश्यन्नवोचत् । आथर्वणायाश्विनौ दधीचेऽश्व्यꣳ शिरः

प्रत्यैरयतम् । स वां मधु प्रवोचदृतायन् त्वाष्ट्रं यद् दस्रावपि

कक्ष्यं वामिति ॥ १७॥


मन्त्र १८[II.v.18]

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः

पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः

स पक्षी भूत्वा पुरः पुरुष आविशदिति । स वा अयं पुरुषः सर्वासु

पूर्षु पुरिशयो नैनेन किंचनानावृतं नैनेन किंचनासंवृतम् ॥ १८॥


मन्त्र १९[II.v.19]

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः

पश्यन्नवोचत् । रूपꣳरूपं प्रतिरूपो बभूव तदस्य रूपं

प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः

शता दशेतिययं वै हरयोऽयं वै दश च सहस्रणि बहूनि

चानन्तानि च । तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा

ब्रह्म सर्वानुभूरित्यनुशासनम् ॥ १९॥


इति पञ्चमं ब्राह्मणम् ॥


अथ षष्ठं ब्राह्मणम् ।


मन्त्र १[II.vi.1]

अथ वꣳशः पौतिमाष्यो गौपवनाद् गौपवनः पौतिमाष्यात्

पौतिमाष्यो गौपवनाद् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात्

कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥ १॥


मन्त्र २[II.vi.2]

आग्निवेश्यादग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्चानभिम्लात

आनभिम्लातादनभिम्लात अनभिम्लातादनभिम्लातो गौतमाद् गौतमः

सैतवप्राचीनयोग्याभ्याꣳ, सैतवप्राचीनयोग्यौ पाराशर्यात्

पाराशर्यो भारद्वाजाद् भारद्वाजो भारद्वाजाच्च गौतमाच्च

गौतमो भारद्वाजाद् भारद्वाजः पाराशर्यात् पाराशर्यो वैजवापायनाद्

वैजवापायनः कौशिकायनेः कौशिकायनिः ॥ २॥


मन्त्र ३[II.vi.3]

घृतकौशिकाद् घृतकौशिकः पाराशर्यायणात् पारशर्यायणः

पाराशर्यात् पाराशर्यो जातूकर्ण्याज् जातूकर्ण्य आसुरायणाच्च यास्काच्च्-

ऽऽसुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरासुरिर्भारद्वाजाद्

भारद्वाज आत्रेयादत्रेयो माण्टेर्माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो

वात्स्याद् वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः

काप्यः कुमारहारितात् कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद्

विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद् वत्सनपाद्बाभ्रवः

पथः सौभरात् पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य

आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्

विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद्

दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः

प्राध्वꣳसनान् मृत्युः प्राध्वꣳसनः प्रध्वꣳसनात्

प्रध्वꣳसन एकर्षेः एकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः

सनारोः सनारुः सनातनात् सनातनः सनगात् सनगः परमेष्ठिनः

परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३॥


इति षष्ठं ब्राह्मणम् ॥


॥ इति बृहदारण्यकोपनिषदि द्वितीयोऽध्यायः ॥

4 次查看0 則留言

相關文章

查看全部

०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथ

०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनू

०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैर

Comentários


bottom of page