top of page

०१० । बृहदारण्यकोपनिषत् । प्रथमोऽध्यायः

बृहदारण्यकोपनिषत्



काण्व पाठः ।


A मधु काण्ड[उपदेश काण्ड]

अध्याय I ब्राह्मण i-vi मन्त्राः ८० 1-...

अध्याय II ब्राह्मण i-vi मन्त्राः ६६ 1-...

B मुनि [yAj~navalkya] काण्ड [उपपत्ति काण्ड]

अध्याय III ब्राह्मण i-ix मन्त्राः ९२ 1-...

अध्याय IV ब्राह्मण i-vi मन्त्राः ९२ 1-...

C खिल काण्ड[उपासना काण्ड]

अध्याय V ब्राह्मण i-xv मन्त्राः ३३ 1-...

अध्याय VI ब्राह्मण i-v मन्त्राः ७५ 1-...


ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमदुच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥


ॐ शान्तिः शान्तिः शान्तिः ॥


अथ प्रथमोऽध्यायः ।



अथ प्रथमं ब्राह्मणम् ।


मन्त्र १ [I.i.1]

उषा वा अश्वस्य मेध्यस्य शिरः । सूर्यश्चक्षुर्वातः प्राणो

व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य । द्यौः

पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे

अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च

पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो

माꣳसान्यूवध्यꣳ सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च

पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन्पूर्वार्धो

निम्लोचञ्जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते

तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १॥


मन्त्र २ [I.i.2]

अहर्वा अश्वं पुरस्तान्महिमाऽन्वजायत तस्य पूर्वे समुद्रे योनी

रात्रिरेनं पश्चान्महिमाऽन्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं

महिमानावभितः सम्बभूवतुर्हयो भूत्वा देवानवहद् वाजी गन्धर्वान्

अर्वाऽसुरान् अश्वो मनुष्यान् समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २॥


इति प्रथमं ब्राहमणम् ॥


अथ द्वितीयं ब्राह्मणम् ।


मन्त्र १ [I.ii.1]

नैवेह किंचनाग्र आसीन् मृत्युनैवेदमावृतमासीदशनाययाऽशनाया

हि मृत्युस्तन्मनोऽकुरुताऽऽत्मन्वी स्यामिति । सोऽर्चन्नचरत्

तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति । तदेवार्क्यस्यार्कत्वम् ।

कꣳ ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १॥


मन्त्र २[I.ii.2]

आपो वा अर्क तद्यदपाꣳ शर आसीत् तत्समहन्यत । सा पृथिव्यभवत्

तस्यामश्राम्यत् तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः ॥ २॥


मन्त्र ३ [I.ii.3]

स त्रेधाऽऽत्मानं व्यकुरुताऽऽदित्यं तृतीयं वायुं तृतीयꣳ ।

स एष प्राणस्त्रेधा विहितस्तस्य प्राची दिक्षिरोऽसौ चासौ चेर्माव

अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची

च पार्श्वे द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः स एषोऽप्सु

प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३॥


मन्त्र ४[I.ii.4]

सोऽकामयत द्वितीयो म आत्मा जायेतेति । स मनसा वाचं

मिथुनꣳ समभवदशनाया मृत्युस्तद्यद्रेत आसीत् स

संवत्सरोऽभवन् न ह पुरा ततः संवत्सर आस । तमेतावन्तं

कालमबिभर्यावान्संवत्सरस्तमेतावतः कालस्य परस्तादसृजत ।

तं जातमभिव्याददात् स भाणकरोत् सैव वागभवत् ॥ ४॥


मन्त्र ५[I.ii.5]

स ऐक्षत यदि वा इममभिमꣳस्ये कनीयोऽन्नं करिष्य इति ।

स तया वाचा तेनाऽऽत्मनेदꣳ सर्वमसृजत यदिदं

किञ्चर्चो यजूꣳषि सामानि छन्दाꣳसि यज्ञान् प्रजाः

पशून् स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वं वा अत्तीति

तददितेरदितित्वꣳ । सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति

य एवमेतददितेरदितित्वं वेद ॥ ५॥


मन्त्र ६[I.ii.6]

सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत् स

तपोऽतप्यत । तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् प्राणा

वै यशो वीर्यम् । तत् प्राणेषूत्क्रान्तेषु शरीरꣳ श्वयितुमध्रियत

तस्य शरीर एव मन आसीत् ॥ ६॥


मन्त्र ७[I.ii.7]

सोऽकामयत मेध्यं म इदꣳ स्यादात्मन्व्यनेन स्यामिति । ततोऽश्वः

समभवद् यदश्वत् तन्मेध्यमभूदिति । तदेवाश्वमेधस्याश्वमेधत्वं

एष ह वा अश्वमेधं वेद य एनमेवं वेद । तमनवरुध्यैवामन्यत ।

तꣳ संवत्सरस्य परस्तादात्मन आलभत । पशून्देवताभ्यः

प्रत्यौहत् तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त एष ह वा

अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका

आत्मानस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेवाप

पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्याऽऽत्मा

भवत्येतासां देवतानामेको भवति ॥ ७॥


इति द्वितीयं ब्राह्मणम् ॥


अथ तृतीयं ब्राह्मणम् ।


मन्त्र १ [I.iii.1]

द्वया ह प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एव देवा ज्यायसा

असुरास्त एषु लोकेष्वस्पर्धन्त । ते ह देवा ऊचुर्हन्तासुरान्यज्ञ

उद्गीथेनात्ययामेति ॥ १॥


मन्त्र २[I.iii.2]

ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यो वागुदगायद् यो वाचि

भोगस्तं देवेभ्य आगायद् यत्कल्याणं वदति तदात्मने । ते विदुरनेन

वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स

पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ॥ २॥


मन्त्र ३[I.iii.3]

अथ ह प्राणमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यः प्राण उदगायद्

यः प्राणे भोगस्तं देवेभ्य आगायद् यत्कल्याणं जिघ्रति तदात्मने ।

ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य

पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव

स पाप्मा ॥ ३॥


मन्त्र ४[I.iii.4]

अथ ह चक्षुरूचुस्त्वं न उद्गायेति । तथेति । तेभ्यश्चक्षुरुदगायद्

यश्चक्षुषि भोगस्तं देवेभ्य आगायद् यत्कल्याणं पश्यति

तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य

पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव

स पाप्मा ॥ ४॥


मन्त्र ५[I.iii.5]

अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यः श्रोत्रमुदगायद्

यः श्रोत्रे भोगस्तं देवेभ्य आगायद् यत्कल्याणꣳ श‍ृणोति

तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य

पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपꣳ श‍ृणोति स

एव स पाप्मा ॥ ५॥


मन्त्र ६[I.iii.6]

अथ ह मन ऊचुस्त्वं न उद्गायेति । तथेति । तेभ्यो मन उदगायद्

यो मनसि भोगस्तं देवेभ्य आगायद् यत्कल्याणꣳ सङ्कल्पयति

तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य

पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपꣳ सङ्कल्पयति स

एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन् पाप्मभिसुपासृजन्

एवमेनाः पाप्मनाऽविध्यन् ॥ ६॥


मन्त्र ७[I.iii.7]

अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति । तथेति । तेभ्य एष

प्राण उदगायत् ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य

पाप्मनाविध्यन् । स यथाश्मानमृत्वा लोष्टो विध्वꣳसेतैवꣳ

हैव विध्वꣳसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन् पराऽसुराः ।

भवत्यात्मना पराऽस्य द्विषन्भ्रातृव्यो भवति य एवं वेद ॥ ७॥


मन्त्र ८[I.iii.8]

ते होचुः क्व नु सोऽभूद् यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य

आङ्गिरसोऽङ्गानाꣳ हि रसः ॥ ८॥


मन्त्र ९[I.iii.9]

सा वा एषा देवता दूर्नाम दूरꣳ ह्यस्या मृत्युर्दूरꣳ ह वा

अस्मान्मृत्युर्भवति य एवं वेद ॥ ९॥


मन्त्र १०[I.iii.10]

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्राऽऽसां

दिशामन्तस्तद्गमयां चकार तदासां पाप्मनो विन्यदधात् तस्मान्न

जनमियान् नान्तमियान् नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १०॥


मन्त्र ११[I.iii.11]

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना

मृत्युमत्यवहत् ॥ ११॥


मन्त्र १२[I.iii.12]

स वै वाचमेव प्रथमामत्यवहत् सा यदा मृत्युमत्यमुच्यत

सोऽग्निरभवत् सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२॥


मन्त्र १३[I.iii.13]

अथ प्राणमत्यवहत् स यदा मृत्युमत्यमुच्यत स वायुरभवत् सोऽयं

वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३॥


मन्त्र १४[I.iii.14]

अथ चक्षुरत्यवहत् तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत्

सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १४॥


मन्त्र १५[I.iii.15]

अथ श्रोत्रमत्यवहत् तद्यदा मृत्युमत्यमुच्यत ता

दिशोऽभवꣳस्ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १५॥


मन्त्र १६[I.iii.16]

अथ मनोऽत्यवहत् तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत्

सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्येवꣳ ह वा एनमेषा

देवता मृत्युमतिवहति य एवं वेद ॥ १६॥


मन्त्र १७[I.iii.17]

अथाऽऽत्मनेऽन्नाद्यमागायद् यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यत

इह प्रतितिष्ठति ॥ १७॥


मन्त्र १८[I.iii.18]

ते देवा अब्रुवन्न् एतावद्वा इदꣳ सर्वं यदन्नं तदात्मन

आगासीरनु नोऽस्मिन्नन्न आभजस्वेति । ते वै माऽभिसंविशतेति ।

तथेति । तꣳ समन्तं परिण्यविशन्त । तस्माद्यदनेनान्नमत्ति

तेनैतास्तृप्यन्त्येवꣳ ह वा एनꣳ स्वा अभिसंविशन्ति भर्ता

स्वानाꣳ श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद ।

य उ हैवंविदꣳ स्वेषु प्रतिप्रतिर्बुभूषति न हैवालं भार्येभ्यो

भवत्यथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स

हैवालं भार्येभ्यो भवति ॥ १८॥


मन्त्र १९[I.iii.19]

सोऽयास्य आङ्गिरसोऽङ्गानाꣳ हि रसः । प्राणो वा अङ्गानाꣳ रसः ।

प्राणो हि वा अङ्गानाꣳ रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति

तदेव तच्छुष्यत्येष हि वा अङ्गानाꣳ रसः ॥ १९॥


मन्त्र २०[I.iii.20]

एष उ एव बृहस्पतिर्वाग्वै बृहती तस्या एष पतिस्तस्मादु

बृहस्पतिः ॥ २०॥


मन्त्र २१[I.iii.21]

एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु

ब्रह्मणस्पतिः ॥ २१॥


मन्त्र २२[I.iii.22]

एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् ।

यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः

समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्यꣳ सलोकतां

य एवमेतत्साम वेद ॥ २२॥


मन्त्र २३[I.iii.23]

एष उ वा उद्गीथः । प्राणो वा उत् प्राणेन हीदꣳ सर्वमुत्तब्धम् ।

वागेव गीथोच्च गीथा चेति स उद्गीथः ॥ २३॥


मन्त्र २४[I.iii.24]

तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं त्यस्य

राजा मूर्धानं विपातयताद् यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति ।

वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २४॥


मन्त्र २५[I.iii.25]

तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर

एव स्वम् । तस्मादार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया वाचा

स्वरसम्पन्नयाऽऽर्त्विज्यं कुर्यात् तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त

एवाथो यस्य स्वं भवति । भवति हास्य स्वं य एवमेतत्साम्नः स्वं

वेद ॥ २५॥


मन्त्र २६[I.iii.26]

तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् । तस्य वै

स्वर एव सुवर्णम् । भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं

वेद ॥ २६॥


मन्त्र २७[I.iii.27]

तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति । तस्य

वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते

ऽन्न इत्यु हैक आहुः ॥ २७॥


मन्त्र २८[I.iii.28]

अथातः पवमानानामेवाभ्यारोहः । स वै खलु प्रस्तोता साम

प्रस्तौति । स यत्र प्रस्तुयात् तदेतानि जपेदसतो मा सद् गमय

तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमयेति । स यदाहासतो मा

सद्गमयेति मृत्युर्वा असत् सदमृतं मृत्योर्माऽमृतं गमयामृतं

मा कुर्वित्येवैतदाह । तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो

ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।

मृत्योर्मामृतं गमयेति नात्र तिरोहितमिवास्त्यथ यानीतराणि

स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् तस्मादु तेषु वरं वृणीत यं

कामं कामयेत तꣳ । स एष एवंविदुद्गाताऽऽत्मने वा यजमानाय वा

यं कामं कामयते तमागायति । तद्धैतल्लोकजिदेव न हैवालोक्यताया

आशास्ति य एवमेतत्साम वेद ॥ २८॥


इति तृतीयं ब्राह्मणम् ॥


अथ चतुर्थं ब्राह्मणम् ।


मन्त्र १ [I.iv.1]

आत्मैवेदमग्र आसीत्पुरुषविधः । सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्

सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहन्नामाभवत् । तस्मादप्येतर्ह्यामन्त्रितो

ऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति । स

यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत् तस्मात्पुरुषः । ओषति ह

वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ १॥


मन्त्र २[I.iv.2]

सोऽबिभेत् तस्मादेकाकी बिभेति । स हायमीक्षां चक्रे यन्मदन्यन्नास्ति

कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद्ध्यभेष्यत्

द्वितीयाद्वै भयं भवति ॥ २॥


मन्त्र ३[I.iv.3]

स वै नैव रेमे तस्मादेकाकी न रमते । स द्वितीयमैच्छत्

स हैतावानास यथा स्त्रीपुमाꣳसौ सम्परिष्वक्तौ ।

स इममेवाऽऽत्मानं द्वेधाऽपातयत् । ततः पतिश्च पत्नी

चाभवताम् । तस्मादिदमर्धबृगलमिव स्व इति ह स्माऽऽह

याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव । ताꣳ समभवत्

ततो मनुष्या अजायन्त ॥ ३॥


मन्त्र ४[I.iv.4]

सो हेयमीक्षां चक्रे कथं नु माऽऽत्मन एव जनयित्वा

सम्भवति । हन्त तिरोऽसानीति । सा गौरभवद् ऋषभ

इतरस्ताꣳ समेवाभवत् ततो गावोऽजायन्त । वडवेतराऽभवद्

अश्ववृष इतरो गर्दभीतरा गर्दभ इतरस्ताꣳ समेवाभवत्

तत एकशफमजायत अजेतराऽभवद् वस्त इतरोऽविरितरा मेष

इतरस्ताꣳ समेवाभवत् ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च

मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ ४॥


मन्त्र ५[I.iv.5]

सोऽवेदहं वाव सृष्टिरस्म्यहꣳ हीदꣳ सर्वमसृक्षीति ।

ततः सृष्टिरभवत् सृष्ट्याꣳ हास्यैतस्यां भवति य एवं वेद ॥ ५॥


मन्त्र ६[I.iv.6]

अथेत्यभ्यमन्थत् स मुखाच्च योनेर्हस्ताभ्यां

चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतोऽलोमका

हि योनिरन्तरतस्तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं

देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवा अथ

यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोमः । एतावद्वा

इदꣳ सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः ।

सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः

सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्याꣳ हास्यैतस्यां

भवति य एवं वेद ॥ ६॥


मन्त्र ७[I.iv.7]

तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियतासौ

नामाऽयमिदꣳरूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव

व्याक्रियतेऽसौ नामायमिदꣳरूप इति । स एष इह प्रविष्ट आ

नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद् विश्वम्भरो वा

विश्वम्भरकुलाये तं न पश्यन्त्यकृत्स्नो हि सः प्राणन्नेव प्राणो

नाम भवति वदन्वाक् पश्यंश्चक्षुः श‍ृण्वञ्ह्रोत्रं मन्वानो

मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स

वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते

सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन

ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिꣳ श्लोकं

विन्दते य एवं वेद ॥ ७॥


मन्त्र ८[I.iv.8]

तदेतत्प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरं

यदयमात्मा । स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियꣳ

रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत । स य

आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ ८॥


मन्त्र ९[I.iv.9]

तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु

तद्ब्रह्मावेद् यस्मात्तत्सर्वमभवदिति ॥ ९॥


मन्त्र १०[I.iv.10]

ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मीति ।

तस्मात्तत्सर्वमभवत् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्

तथर्षीणां तथा मनुष्याणाम् । तद्धैतत्पश्यन्नृषिर्वामदेवः

प्रतिपेदेऽहं मनुरभवꣳ सूर्यश्चेति । तदिदमप्येतर्हि

य एवं वेदाहं ब्रह्मास्मीति इति स इदꣳ सर्वं भवति तस्य ह

न देवाश्चनाभूत्या ईशत आत्मा ह्येषाꣳ स भवत्यथ योऽन्यां

देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद । यथा पशुरेवꣳ

स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः

पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति

किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १०॥


मनुष्यास्विद्युर्मन्त्र ११


मन्त्र ११[I.iv.11]

ब्रह्म वा इदमग्र आसीदेकमेव । तदेकꣳ सन्न व्यभवत् तच्छ्रेयो

रूपमत्यसृजत क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो

रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात्क्षत्रात्परं नास्ति

तस्माद्ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये । क्षत्र एव तद्यशो

दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म । तस्माद्यद्यपि राजा परमतां

गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् । य उ एनꣳ हिनस्ति

स्वाꣳ स योनिमृच्छति । स पापीयान्भवति यथा श्रेयाꣳसꣳ

हिꣳसित्वा ॥ ११॥


मन्त्र १२[I.iv.12]

स नैव व्यभवत् स विशमसृजत यान्येतानि देवजातानि गणश

आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ १२॥


मन्त्र १३[I.iv.13]

स नैव व्यभवत् स शौद्रं वर्णमसृजत पूषणमियं वै

पूषेयꣳ हीदꣳ सर्वं पुष्यति यदिदं किञ्च ॥ १३॥


मन्त्र १४[I.iv.14]

स नैव व्यभवत् तच्छ्रेयो रूपमत्यसृजत धर्मम् ।

तदेतत्क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्धर्मात् परं नास्त्यथो

अबलीयान् बलीयाꣳसमाशꣳसते धर्मेण यथा राज्ञैवम् । यो वै स

धर्मः सत्यं वै तत् तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति धर्मं

वा वदन्तꣳ सत्यं वदतीत्येतद्ध्येवैतदुभयं भवति ॥ १४॥


मन्त्र १५[I.iv.15]

तदेतद्ब्रह्म क्षत्रं विट् शूद्रस्तदग्निनैव देवेषु ब्रह्माभवद्

ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण

शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्याꣳ

हि रूपाभ्यां ब्रह्माभवदथ यो ह वा अस्माल्लोकात्स्वं

लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो

वाऽननूक्तोऽन्यद्वा कर्माकृतम् । यदि ह वा अप्यनेवंविन्महत्पुण्यं

कर्म करोति तद्धास्यान्ततः क्षीयत एवाऽऽत्मानमेव लोकमुपासीत । स

य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवाऽऽत्मनो

यद्यत्कामयते तत्तत्सृजते ॥ १५॥


मन्त्र १६[I.iv.16]

अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते

तेन देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत् पितृभ्यो

निपृणाति अथ यत्प्रजामिच्छते तेन पितृणामथ यन्मनुष्यान्वासयते

यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं

विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयाꣳस्या पिपीलिकाभ्य

उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेद्

एवꣳ हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति । तद्वा

एतद्विदितं मीमाꣳसितम् ॥ १६॥


मन्त्र १७[I.iv.17]

आत्मैवेदमग्र आसीदेक एव । सोऽकामयत जाया मे स्यादथ प्रजायेयाथ

वित्तं मे स्यात् अथ कर्म कुर्वीयेत्येतावान्वै कामो नेच्छꣳश्चनातो

भूयो विन्देत् तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ

वित्तं मे स्यादथ कर्म कुर्वीयेति । स यावदप्येतेषामेकैकं

न प्राप्नोत्यकृत्स्न एव तावन् मन्यते । तस्यो कृत्स्नता । मन

एवास्याऽऽत्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तं चक्षुषा

हि तद्विन्दते श्रोत्रं दैवꣳ श्रोत्रेण हि तच्छृणोत्यात्मैवास्य

कर्माऽऽत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः

पाङ्क्तः पुरुषः पाङ्क्तमिदꣳ सर्वं यदिदं किञ्च । तदिदꣳ

सर्वमाप्नोति य एवं वेद ॥ १७॥


इति चतुर्थं ब्राह्मणम् ॥


अथ पञ्चमं ब्राह्मणम् ।


मन्त्र १[I.v.1]

यत्सप्तान्नानि मेधया तपसाऽऽजनयत्पिता । एकमस्य साधारणं द्वे

देवानभाजयत् ॥ त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् ।

तस्मिन्त्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ॥ कस्मात्तानि

न क्षीयन्तेऽद्यमानानि सर्वदा । यो वै तामक्षितिं वेद सोऽन्नमत्ति

प्रतीकेन स देवानपिगच्छति स ऊर्जमुपजीवतीति श्लोकाः ॥ १॥


मन्त्र २[I.v.2]

यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेति मेधया हि तपसाजनयत्

पितैकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते ।

स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रꣳ ह्येतत् । द्वे

देवानभाजयदिति हुतं च प्रहुतं च तस्माद् देवेभ्यो जुह्वति च प्र

च जुह्वत्यथो आहुर्दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुकः स्यात् ।

पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रे मनुष्याश्च

पशवश्चोपजीवन्ति । तस्मात् कुमारं जातं घृतं वै वाग्रे

प्रतिलेहयन्ति स्तनं वाऽनुधापयन्त्यथ वत्सं जातमाहुरतृणाद

इति । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि

हीदꣳ सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद्यदिदमाहुः

संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्

यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् सर्वꣳ

हि देवेभ्योऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्तेऽद्यमानानि

सर्वदेति पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते ।

यो वै तामक्षितिं वेदेति पुरुषो वा अक्षितिः । स हीदमन्नं धिया

धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात् क्षीयेत ह । सोऽन्नमत्ति

प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत् स देवानपिगच्छति स

ऊर्जमुपजीवतीति प्रशꣳसा ॥ २॥


मन्त्र ३[I.v.3]

त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना

अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति

मनसा श‍ृणोति । कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा

धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव । तस्मादपि

पृष्ठत उपस्पृष्टो मनसा विजानाति । यः कश्च शब्दो वागेव

सैषा ह्यन्तमायत्तैषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन

इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ३॥


मन्त्र ४[I.v.4]

त्रयो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ ४॥


मन्त्र ५[I.v.5.]

त्रयो वेदा एत एव वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ ५॥


मन्त्र ६[I.v.6]

देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः प्राणो मनुष्याः ।


मन्त्र ७[I.v.7]

पिता माता प्रजैत एव मन एव पिता वाङ्माता प्राणः प्रजा ॥ ७॥


मन्त्र ८[.I.v.8]

विज्ञातं विजिज्ञास्यमविज्ञातमेत एव यत्किञ्च विज्ञातं

वाचस्तद्रूपं वाग्घि विज्ञाता वागेनं तद्भूत्वाऽवति ॥ ८॥


मन्त्र ९[I.v.9]

यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपं मनो हि विजिज्ञास्यं मन एनं

तद्भूत्वाऽवति ॥ ९॥


मन्त्र १०[I.v.10]

यत्किञ्चाविज्ञातं प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एनं

तद्भूत्वाऽवति ॥ १०॥


मन्त्र ११[I.v.11]

तस्यै वाचः पृथिवी शरीरं ज्योती रूपमयमग्निस्तद्यावत्येव वाक्

तावती पृथिवी तावानयमग्निः ॥ ११॥


मन्त्र १२[I.v.12]

अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यस्तद्यावदेव

मनस्तावती द्यौस्तावानसावादित्यस्तौ मिथुनꣳ समैतां ततः

प्राणोऽजायत । स इन्द्रः स एषोऽसपत्नो द्वितीयो वै सपत्नो नास्य

सपत्नो भवति य एवं वेद ॥ १२॥


मन्त्र १३[I.v.13]

अथैतस्य प्राणस्याऽऽपः शरीरं ज्योतीरूपमसौ चन्द्रस्तद्यावानेव

प्राणस्तावत्य आपस्तावानसौ चन्द्रः । त एते सर्व एव समाः

सर्वेऽनन्ताः । स यो हैतानन्तवत उपास्तेऽन्तवन्तꣳ स लोकं

जयत्यथ यो हैताननन्तानुपास्तेऽनन्तꣳ स लोकं जयति ॥ १३॥


मन्त्र १४[I.v.14]

स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश

कला ध्रुवैवास्य षोडशी कला । स रात्रिभिरेवाऽऽ च पूर्यते

ऽप च क्षीयते । सोऽमावास्याꣳ रात्रिमेतया षोडश्या कलया

सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेताꣳ

रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव

देवताया अपचित्यै ॥ १४॥ अपचित्यै


मन्त्र १५[I.v.15]

यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स

योऽयमेवंवित्पुरुषस्तस्य वित्तमेव पञ्चदश कला आत्मैवास्य

षोडशी कला । स वित्तेनैवाऽऽ च पूर्यतेऽप च क्षीयते ।

तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तम् । तस्माद्यद्यपि सर्वज्यानिं

जीयत आत्मना चेज्जीवति प्रधिनाऽगादित्येवाऽऽहुः ॥ १५॥


मन्त्र १६[I.v.16]

अथ त्रयो वाव लोकाः मनुष्यलोका पितृलोको देवलोक इति । सोऽयं

मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा कर्मणा पितृलोको विद्यया

देवलोको देवलोको वै लोकानाꣳ श्रेष्ठस्तस्माद्विद्यां प्रशꣳसन्ति ॥ १६॥


मन्त्र १७[I.v.17]

अथातः सम्प्रत्तिर्यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म

त्वं यज्ञस्त्वं लोक इति । स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञो

ऽहम् लोक इति । यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता ।

ये वै के च यज्ञास्तेषाꣳ सर्वेषां यज्ञ इत्येकता ।

ये वै केच लोकास्तेषाꣳ सर्वेषां लोक इत्येकतैतावद्वा

इदꣳ सर्वमेतन्मा सर्वꣳ सन्नयमितोऽभुनजदिति ।

तस्मात् पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासति । स

यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति ।

स यद्यनेन किञ्चिदक्ष्णयाऽकृतं भवति तस्मादेनꣳ

सर्वस्मात्पुत्रो मुञ्चति । तस्मात् पुत्रो नाम । स पुत्रेणैवास्मिंॅल्लोके

प्रतितिष्ठत्यथैनमेते दैवाः प्राणा अमृता आविशन्ति ॥ १७॥


मन्त्र १८[I.v.18]

पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । सा वै दैवी वाग्यया

यद्यदेव वदति तत्तद्भवति ॥ १८॥


मन्त्र १९[I.v.19]

दिवश्चैनमादित्याच्च दैवं मन आविशति । तद्वै दैवं मनो

येनाऽऽनन्द्येव भवत्यथो न शोचति ॥ १९॥


मन्त्र २०[I.v.20]

अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै दैवः

प्राणो यः सञ्चरꣳश्चासञ्चरꣳश्च न व्यथतेऽथो

न रिष्यति । स एवंवित्सर्वेषां भूतानामात्मा भवति । यथैषा

देवतैवꣳ स यथैतां देवताꣳ सर्वाणि भूतान्यवन्त्येवꣳ

हैवंविदꣳ सर्वाणि भूतान्यवन्ति । यदु किञ्चेमाः प्रजाः

शोचन्त्यमैवाऽऽसां तद्भवति पुण्यमेवामुं गच्छति न ह वै

देवान्पापं गच्छति ॥ २०॥


मन्त्र २१[I.v.21]

अथातो व्रतमीमाꣳसा । प्रजापतिर्ह कर्माणि ससृजे । तानि

सृष्टान्यन्योऽन्येनास्पर्धन्त वदिष्याम्येवाहमिति वाग्दध्रे

द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रम् । एवमन्यानि

कर्माणि यथाकर्म । तानि मृत्युः श्रमो भूत्वोपयेमे तान्याप्नोत्

तान्याप्त्वा मृत्युरवारुन्ध । तस्माच्छ्राम्यत्येव वाक् श्राम्यति

चक्षुः श्राम्यति श्रोत्रमथेममेव नाऽऽप्नोद् योऽयं

मध्यमः प्राणस्तानि ज्ञातुं दध्रिरेऽयं वै नः श्रेष्ठो

यः सञ्चरꣳश्चासञ्चरꣳश्च न व्यथतेऽथो न

रिष्यति । हन्तास्यैव सर्वे रूपमसामेति । त एतस्यैव सर्वे

रूपमभवꣳस्तस्मादेत एतेनाऽऽख्यायन्ते प्राणा इति । तेन ह वाव

तत्कुलमाचक्षते यस्मिन्कुले भवति य एवं वेद । य उ हैवंविदा

स्पर्धतेऽनुशुष्यत्यनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ २१॥


मन्त्र २२[I.v.22]

अथाधिदैवतं ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्याम्यहमित्यादित्यो

भास्याम्यहमिति चन्द्रमा एवमन्या देवता यथादैवतꣳ । स

यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुर्निम्लोचन्ति

ह्यन्या देवता न वायुः । सैषाऽनस्तमिता देवता यद्वायुः ॥ २२॥


मन्त्र २३[I.v.23]

अथैष श्लोको भवति यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति

प्राणाद्वा एष उदेति प्राणेऽस्तमेति तं देवाश्चक्रिरे धर्मꣳ,

स एवाद्य स उ श्व इति । यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य

कुर्वन्ति । तस्मादेकमेव व्रतं चरेत् प्राण्याच्चैवापान्याच्च नेन्मा

पाप्मा मृत्युराप्नवदिति । यद्यु चरेत् समापिपयिषेत् तेनो एतस्यै

देवतायै सायुज्यꣳ सलोकतां जयति ॥ २३॥


इति पञ्चमं ब्राह्मणम् ॥


अथ षष्ठं ब्राह्मणम् ।


मन्त्र १[I.vi.1]

त्रयं वा इदं नाम रूपं कर्म । तेषां नाम्नां वागित्येतदेषामुक्थमतो

हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषाꣳ सामैतद्धि सर्वैर्नामभिः

सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १॥


मन्त्र २[I.vi.2]

अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति ।

एतदेषाꣳ सामैतद्धि सर्वै रूपैः समम् । एतदेषां ब्रह्मैतद्धि

सर्वाणि रूपाणि बिभर्ति ॥ २॥


मन्त्र ३[I.vi.3]

अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि

कर्माण्युत्तिष्ठन्त्येतदेषाꣳ सामैतद्धि सर्वैः कर्मभिः समं

एतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति । तदेतत्त्रयꣳ

सदेकमयमात्माऽऽत्मो एकः सन्नेतत्त्रयम् । तदेतदमृतꣳ सत्येन

छन्नम् । प्राणो वा अमृतं नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः ॥ ३॥


इति षष्ठं ब्राह्मणम् ॥


॥ इति बृहदारण्यकोपनिषदि प्रथमोऽध्यायः ॥

4 次查看0 則留言

相關文章

查看全部

०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथ

०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनू

०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैर

Comments


bottom of page