top of page

०२० । परमहंसोपनिषत्

परमहंसोपनिषत्



ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवंसस्तनूभिर्व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।


ॐ शान्तिः शान्तिः शान्तिः।

हरिः ॐ ॥


अथ योगिनं परमहंसनं कोऽयं मार्नस्तेषं का स्थितिरिति नारदो

भगवन्तमुपगत्योवाच । तं भगवानाः । योऽयं परमहंसमार्गो

लोके दुर्लभतरो न तु बाहुल्यो यद्येको भवति स एव नित्यपूतस्थः

स एव वेदपुरुष इति विदुषो मन्यन्ते महापुरुषो यच्चित्तं

तत्सर्वदा मय्येवावतिष्टते तस्मादहं च तस्मिन्नेवावस्थीयते ।

असौ स्वपुत्रमित्रकलत्रबन्व्वादीञ्शिखायज्ञोपवीते

स्वाध्यायं च सर्वकर्माणि

संन्यस्यायं ब्रह्माण्डं च हित्वा कौपीनं दण्डमाच्छादनं च

स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिग्रहेत्तच्च न

मुख्योऽस्ति कोऽयं मुख्य इति चेदयं मुख्यः ॥ १॥


न दण्डं न शिखं न यज्ञोपवीतं न चाच्छादनं चरति परमहंसः ।

न शितं न चोष्णं न सुखं न दुःखं न मानावमाने च षडूर्मिवर्जं

निन्दागर्वमत्सरदम्मदर्पेच्छाद्वेषसुखदुःखकामकोधलोभमोहहर्षसु

उयाहंकारादींश्च हित्वा स्ववपुः कुणपमिव दृष्यते

यतस्तद्वपुरपध्वस्तं संशयविपरीतमिथ्याज्ञानानां यो हेतुस्तेन

नित्यनिवृत्तस्तन्नित्यबोधस्तत्स्वयमेवावस्थितिस्तं

शन्तमचलमद्वयानन्दविज्ञानघन एवास्मि ।

तदेव मम परम्धाम तदेव शिखा च तदेवोपवीत च ।

परमात्मात्मनोरेकत्वज्ञानेन तयोर्भेद एव विभग्नः सा सध्या ॥ २॥


सर्वान्कामान्परित्यज्य अद्वैते परमस्थितिः ।

ज्ञानदण्डो धृतो येन एकदण्डो स उच्यते ॥


काष्ठदण्डो धृतो येन सर्वाशि ज्ञानवर्जितः ।

स याति नरकान्धोरान्महारौरवसञ्ज्ञकान् ॥


इदमन्तरं ज्ञात्वा स परमहंसः ॥ ३॥


आशाम्बरो न नमर्कारो न स्वधाकारो न निन्दा न स्तुतिर्यादृच्छिको

भवेद्भिक्षुर्नाऽऽवाहनं न विसर्जनं न मन्त्रं न ध्यानं

नोपासनं च न लक्ष्यं नाकक्ष्यं न पृथग्नापृथगहं

न न त्वं न सर्व चानिकेतस्थितिरेव भिक्षुः सौवर्णादीनं

नैव परिग्नहेन्न लोकं नावलोकं चाऽऽबाधकं क इति

चेद्बाधकोऽस्त्येव यस्माद्भिक्षुर्हिरण्यं रसेन दृष्टं

च स ब्रह्महा भवेत् ।

यस्माद्भिक्षुर्हिरण्यं रसेन ग्राह्यं च स आत्महा भवेत् ।

तस्माद्भिक्षुर्हिरण्यं रसेन न दृष्टं च न

स्पृष्टं च न ग्राह्यं च । सर्वे कामा मनोगता

व्यावर्तन्ते । दुःखे नोद्विग्नः सुखे न स्पृहा त्यागो रागे सर्वत्र

शुभाशुभयोरनभिस्नेहो न द्वेष्टि न मोदं च । सर्वेषामिन्द्रियाणां

गतिरुपरमते य आत्मन्येवावस्थीयते

यत्पूर्णानन्दैकबोधस्तदब्रह्माहमस्मीति

कृतकृत्यो भवति कृतकृत्यो भवति ॥ ४॥


ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवंसस्तनूभिर्व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।


ॐ शान्तिः शान्तिः शान्तिः।

हरिः ॐ ॥


इति श्रीपरमहंसोपनिषत्समाप्ता ॥

4 次查看0 則留言

相關文章

查看全部

०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथ

०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनू

०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैर

Comments


bottom of page