top of page

०२१ । ब्रह्मोपनिषत्

ब्रह्मोपनिषत्



ॐ शौनको ह वै महाशालोऽङ्गिरसं भगवन्तं

पिप्पलादमपृच्छत् । दिव्ये ब्रह्मपुरे सम्प्रतिष्टिता

भवन्ति कथं सृजन्ति कस्यैष महिमा बभूव यो

ह्मषे महिमा बभूव क एषः ।

तस्मै स होवाच ब्रह्मविद्यं वरिष्ठाम् । प्राणो ह्येष

आत्मा । आत्मनो महिमा बभुव देवानामायुः स देवानां

निधनमनिधनं दिव्ये ब्रह्मपुरे विरजं निष्कलं

शुभ्रमक्षरं यद्ब्रह्म विभाति स नियच्छति

मघुकरराजानं माक्षिकवदिति । यथा माक्षीकैकेन

तन्तुना जालं वक्षिपति तेनापकर्षति तथैवैष प्राणो

यदा याति संसृष्टमाकृष्य । प्राणदेवतास्ताः सर्वा

नाड्यः । सुष्वपे श्येनाकाशवद्यथा खं श्येनमाश्रित्य

याति स्वमालयमेवं सुषुप्तो ब्रूते यथैवैष देवदत्तो

यष्ट्याऽपि ताड्यमानो न यत्येवमिष्टापूर्तैः

शुभाशुभैर्न लिप्यते । यथा कुमारो निष्काम

आनन्दमुपयाति तथैवैष देवदत्तः स्वप्न आनन्दमभियाति ।

वेद एव परं ज्योतिः ज्योतिष्कामो ज्योतिरानन्दयते ।

भूयस्तेनैव स्वप्नाय गच्छति जलौकावत् । यथा

जलौकाऽग्रमग्रं नयत्यात्मानं नयति परं संधय ।

यत्परं नापरं त्यजति स जाग्रदभिधियते । यथैवैष

कपालाष्टकं संनयति । तमेव स्तन इव लम्बते

वेददेवयोनः । यत्र जाग्रति शुभाशुभं निरुक्तमस्य

देवस्य स सम्प्रसारोऽन्थर्यामी खगः कर्कटकः पुष्करः

पुरुषः ग्राणो हिंसा परापरं ब्रह्म आत्मा देवता वेदयति ।

य एवं वेद स परं ब्रह्म धं क्षेत्रज्ञमुपैति ॥ १॥


अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति

नाभिर्हृदयं कण्ठं भूर्धेति । तत्र चतुष्पादं

ब्रह्म विभाति । जागरितं स्वप्नं सुषुप्तं तुरीयमिति ।

जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीयं

परमाक्षरं आदित्यश्च विष्णुश्चेश्वरश्च स पुरुषः

स प्राणः स जीवः सोऽग्निः सेश्वरश्च जाग्रत्तेषं मध्ये

यत्परं ब्रह्म विभाति । स्वयममनस्कमश्रोत्रमपाणिपादं

ज्योतिर्वर्जितं न तत्र लोका न लोका वेदा न वेदा देवा न

देवा यज्ञा न यज्ञ माता न माता पिता न पिता स्नुष न

स्नुष चाण्डालो न चाण्डालः पैल्कसो न पैल्कसः श्रमणो न

श्रमणः पशवो न पशवस्तापसो न तापस इत्येकमेव

परं ब्रह्म विभाति । हृद्याकाशे तद्विज्ञानमाकाशं

तत्सुषिरमाकाशं तद्वेद्यं हृद्याकाशं यस्मिन्निदं

संचरति वचरति यस्मिन्निदं सर्वमोतं प्रोतम् । सं

विभोः प्रजा ज्ञायेरन् । न तत्र देवा ऋषयः पितर रिशते

प्रतिबुद्धः सर्वविदिति ॥ २॥


हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ।

हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च यन्महत् ॥


हृदि चैतन्ये तिष्ठति यज्ञोपवीतं परमं पवित्रं

प्रजापतेर्यत्सहजं पुरस्तात् ।

आयुष्यमग्रपं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥


सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः ।

यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥


सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् ।

तत्सूत्रं विदितं येन स विप्रो वेदपारगः ॥


तेन सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।

तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शिवान् ॥


बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः ।

ब्रह्मभावमयं सूत्रं धारयेद्यः स चेतनः ॥


धारणात्तस्य सूत्रस्य नोच्छिष्ठो नाशुचिर्भवेत् ।

सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥


ते चै सूत्रविदो लोके ते च यज्ञोपवीतिनः ।

ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिहः ॥


ज्ञानमेव परं तेषां पवित्रं ज्ञानमुत्तमम् ।

अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ॥


स शिखीत्युच्यते विद्वानितरे केशधारिणः ॥ ३॥


कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः ।

तैः संधार्यमिद सूत्रं क्रियाङ्गं तद्धि वै स्मृतम् ॥


शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।

ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ॥


इदं यज्ञोपवीतं तु पवित्रं यत्परायणम् ।

स विद्वान्यज्ञोपवीती स्यात्स यज्ञः स च यज्ञवित् ॥


एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।

कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥


एको मनीषी निष्कियाणां बहूनामेकं सन्तं बहुधा यः करोति ।

तमात्मानं येऽनुपष्यन्ति धीरास्तेषं शान्तिः शाश्वती नेतरेषाम् ॥


आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।

ध्याननोर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥


तिलेषु तैलं दधिनीव सर्पिरापः स्त्रोतःस्वरणीषु चान्निः ।

एवमात्माऽऽत्मनि गृह्मतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥


ऊर्णनाभिर्यथा तन्तून्सृजते संहरत्यपि ।

जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥


पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम् ।

हृदयं तद्विजानीयाद्विश्वस्याऽऽयतनं महत् ॥


नेत्रस्थं जाग्रतं विद्यात्कण्ठे स्वप्नं विनिर्दिषेत् ।

सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ॥


यदात्मा प्रज्ञयाऽऽत्मानं संधत्ते परमात्मनि ।

तेन संध्या ध्यानमेव तस्मात्सन्ध्याभिवन्दनम् ॥


निरोदकाध्यानसंध्या वाक्कायक्लेशवर्जिता ।

संधिनी सर्वभूतानां सा संध्या ह्येकदण्डिनाम् ॥


यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।

आन्नन्दमेतज्जीवस्य यं ज्ञात्वा मुच्यते बुधः ॥


सर्वव्यापिनमात्मानं क्षीरे सर्प्रिवार्पितम् ।

आत्मातपोमूलं तद्ब्रह्मोपनिषत्परम् ।

सर्वात्मैकत्वरीपेण तद्ब्रह्मोपनिषत्परमिति ॥ ४॥


इत्यथर्ववेदे ब्रह्मोपनिषत्समाप्ता ॥

4 次查看0 則留言

相關文章

查看全部

०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथ

०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनू

०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैर

Σχόλια


bottom of page