Upaniṣadārambhīyāḥ śāntayaḥBrahmavidyāvihāraApr 152 min readUpdated: Apr 20उपनिषदारम्भीयाः शान्तयः।॥ श्रीगणेशाय नमः ॥मुक्तिकोपनिषत्स्थदशोपनिषत्क्रमः।ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः।ऐतरेयं च छान्दोग्यं बृहदारण्यकं दश॥१॥महावाक्यरत्नावल्यामुपनिषच्छान्तिपाठक्रमः।वाक्पूर्णसहनाप्यायन्भद्रंकर्णेभिरेव च।पञ्च शान्तीः पठित्वादौ पठेद्वाक्यान्यनन्तरम्॥२॥अस्य द्वितीयश्लोकस्य मुक्तिकोपनिषदनुसारतः स्पष्टीकरणम्--ऋग्यजुःसामाथर्वाख्यवेदेषु द्विविधो मतः।यजुर्वेदः शुक्लकृष्णविभेदेनात एव च॥३॥शान्तयः पञ्चधा प्रोक्ता वेदानुक्रमणेन वै।वाङ्मे मनसि शान्त्यैव त्वैतरेयं प्रपठ्यते॥४॥ईशं पूर्णमदेनैव बृहदारण्यकं तथा।सह नाविति शान्त्या च तैत्तिरीयं कठं च वै॥५॥आप्यायन्त्विति शान्त्यैव केनच्छान्दोग्यसंज्ञके।भद्रं कर्णेति मन्त्रेण प्रश्नमाण्डूक्यमुण्डकम्॥६॥इति क्रमेण प्रत्युपनिषद आदावन्ते च शान्तिं पठेत्॥शांकरमठसंप्रदायीयाः शान्तयः।ॐ तत्सत्परमात्मने नमः॥ॐशं नो मित्रः शं वरुणः।शं नो भवत्वर्यमा।शं न इन्द्रो बृहस्पतिः।शं नो विष्णुरुरुक्रमः।नमो ब्रह्मणे।नमस्ते वायो।त्वमेव प्रत्यक्षं ब्रह्मासि।त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि।ऋतं वदिष्यामि।सत्यं वदिष्यामि।तन्मामवतु।तद्वक्तारमवतु।अवतु माम्।अवतु वक्तारम्॥ॐ शान्तिः शान्तिः शान्तिः॥१॥ॐसह नाववतु।सह नौ भुनक्तु।सह वीर्यं करवावहै।तेजस्वि नावधीतमस्तु मा विद्विषावहै॥ॐ शान्तिः शान्तिः शान्तिः॥२॥ॐयश्छन्दसामृषभो विश्वरूपः।छन्दोभ्योऽध्यमृतात्संबभूव।स मेन्द्रो मेधया स्पृणोतु।अमृतस्य देवधारणो भूयासम्।शरीरं मे विचर्षणम्।जिह्वा मे मधुमत्तमा।कर्णाभ्यां भूरि विश्रुवम्।ब्रह्मणः कोशोऽसि मेधया पिहितः।श्रुतं मे गोपाय॥ॐ शान्तिः शान्तिः शान्तिः॥३॥ॐअहं वृक्षस्य रेरिव।कीर्तिः पृष्ठं गिरेरिव।ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि।द्रविणꣳ सवर्चसम्।सुमेधा अमृतोक्षितः।इति त्रिशङ्कोर्तेदानुवचनम्॥ॐ शान्तिः शान्तिः शान्तिः॥४॥ॐपूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥ॐ शान्तिः शान्तिः शान्तिः ॥५॥ॐआप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि।सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु।तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु॥ॐ शान्तिः शान्तिः शान्तिः॥६॥ॐवाङ्मे मनसि प्रतिष्ठिता।मनो मे वाचि प्रतिष्ठितम्।अविरावीर्म एधि।वेदस्य म आणीस्थः।श्रुतं मे मा प्रहासीः।अनेनाधीतेन।अहोरात्रात्संदधामि।ऋतं वदिष्यामि।सत्यं वदिष्यामि।तन्मामवतु।तद्वक्तारमवतु।अवतु माम्।अवतु वक्तारमवतु वक्तारम्॥ॐ शान्तिः शान्तिः शान्तिः॥७॥ॐभद्रं नोऽपिवातय मनः॥ॐ शान्तिः शान्तिः शान्तिः॥८॥ॐभद्रं कर्णेभिः शृणुयाम देवाः।भद्रं पश्येमाक्षभिर्यजत्राः।स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः।व्यशेम देवहितं यदायुः।स्वस्ति न इन्द्रो वृद्धश्रवाः।स्वस्ति नः पूषा विश्ववेदाः।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।स्वस्ति नो बृहस्पतिर्दधातु॥ॐ शान्तिः शान्तिः शान्तिः॥९॥ॐयो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै।तꣳ ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये॥ॐ शान्तिः शान्तिः शान्तिः॥१०॥॥इति दश शान्तयः समाप्ताः॥ॐनमो ब्रह्मादिभ्यो ब्रह्मविद्यासंप्रदायकर्तृभ्यो वंशऋषिभ्यो महद्भ्यो नमो गुरुभ्यः।सर्वोपप्लवरहितः प्रज्ञानघनः प्रत्यगर्थो ब्रह्मैवाहमस्मि॥१॥ॐ नारायणं पद्मभवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च।व्यासं शुक्रं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम्॥२॥श्रीशंकराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम्।तं त्रोटकं वार्तिककारमन्यानस्मद्गुरून्संततमानतोऽस्मि॥३॥श्रुतिस्मृतिपुराणानामालयं करुणालयम्।नमामि भगवत्पादं शंकरं लोकशंकरम्॥४॥शंकरं शंकराचार्यं केशवं बादरायणम्।सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः॥५॥ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने।व्योमवद्व्याप्त देहाय दक्षिणामूर्तये नमः॥६॥अथानध्यायमङ्गलपाठः॥अशुभानि निराचष्टे तनोति शुभसंततिम्।स्मृतिमात्रेण यत्पुंसां ब्रह्म तन्मङ्गलं परम्॥१॥अतिकल्याणरूपत्वान्नित्यकल्याणसंश्रयात्।स्मर्तॄणां वरदत्वाच्च ब्रह्म तन्मङ्गलं विदुः॥२॥ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा।कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ॥३॥॥हरिः ॐ तत्सद्ब्रह्मार्पणमस्तु॥ ❁ Exemplar(底本):Paṇḍitajagadīśaśāstriṇā, Upaniṣatsaṃgrahaḥ, Motīlāla Banārasīdāsa, 1970.❁ Revised edition edited by(修订): 明泽(Brahmānanda)