top of page

००४ । प्रश्नोपनिषत्


प्रश्नोपनिषत्



ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्तुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥


स्वस्ति न इन्द्रो वृद्धश्रवाः

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः

स्वस्ति नो बृहस्पतिर्दधातु ॥


ॐ शान्तिः शान्तिः शान्तिः ॥


प्रथमः प्रश्नः ।


ॐ सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः

कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते

ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं

वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १.१॥


तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया

संवत्सरं संवत्स्यथ यथाकामं प्रश्नान् पृच्छत यदि

विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ १.२॥


अथ कबन्धी कात्यायन उपेत्य पप्रच्छ ।

भगवन् कुते ह वा इमाः प्रजाः प्रजायन्त इति ॥ १.३॥


तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत

स तपस्तप्त्वा स मिथुनमुत्पादयते । रयिं च प्राणं

चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ १.४॥


आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्

सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ १.५॥


अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान्

रश्मिषु सन्निधत्ते । यद्दक्षिणां यत् प्रतीचीं यदुदीचीं यदधो

यदूर्ध्वं यदन्तरा दिशो यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान्

रश्मिषु सन्निधत्ते ॥ १.६॥


स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते ।

तदेतदृचाऽभ्युक्तम् ॥ १.७॥


विश्वरूपं हरिणं जातवेदसं

परायणं ज्योतिरेकं तपन्तम् ।

सहस्ररश्मिः शतधा वर्तमानः

प्राणः प्रजानामुदयत्येष सूर्यः ॥ १.८॥


संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च ।

तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव

लोकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः

प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः

पितृयाणः ॥ १.९॥


अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया

विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै

प्राणानामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्त

इत्येष निरोधस्तदेष श्लोकः ॥ १.१०॥


पञ्चपादं पितरं द्वादशाकृतिं

दिव आहुः परे अर्धे पुरीषिणम् ।

अथेमे अन्य उ परे विचक्षणं

सप्तचक्रे षडर आहुरर्पितमिति ॥ १.११॥


मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्रणस्तस्मादेत

ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥ १.१२॥


अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते

प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ

रत्या संयुज्यन्ते ॥ १.१३॥


अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः

प्रजायन्त इति ॥ १.१४॥


तद्ये ह वै तत् प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते ।

तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं

प्रतिष्ठितम् ॥ १.१५॥


तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न

माया चेति ॥ १.१६॥


इति प्रश्नोपनिषदि प्रथमः प्रश्नः ॥


द्वितीयः प्रश्नः ।


अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव

देवाः प्रजां विधारयन्ते कतर एतत् प्रकाशयन्ते कः

पुनरेषां वरिष्ठ इति ॥ २.१॥


तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः

पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति

वयमेतद्बाणमवष्टभ्य विधारयामः ॥ २.२॥


तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथ अहमेवैतत्

पञ्चधाऽऽत्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति

तेऽश्रद्दधाना बभूवुः ॥ २.३॥


सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व

एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते । तद्यथा

मक्षिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रमन्ते तस्मिंष्च

प्रतिष्ठमाने सर्व एव प्रातिष्टन्त एवं वाङ्मनष्चक्षुः श्रोत्रं

च ते प्रीताः प्राणं स्तुन्वन्ति ॥ २.४॥


एषोऽग्निस्तपत्येष सूर्य

एष पर्जन्यो मघवानेष वायुः

एष पृथिवी रयिर्देवः

सदसच्चामृतं च यत् ॥ २.५॥


अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।

ऋचो यजूꣳषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥ २.६॥


प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।

तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति

यः प्राणैः प्रतितिष्ठसि ॥ २.७॥


देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ।

ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ २.८॥


इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।

त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ २.९॥


यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः ।

आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ २.१०॥


व्रात्यस्त्वं प्राणैकर्षरत्ता विश्वस्य सत्पतिः ।

वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ २.११॥


या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।

या च मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥ २.१२॥


प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् ।

मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ २.१३॥


इति प्रश्नोपनिषदि द्वितीयः प्रश्नः ॥


तृतीयः प्रश्नः


अथ हैनं कौशल्यश्चाश्वलायनः पप्रच्छ । भगवन् कुत

एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा

प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बाह्यमभिधत्ते

कथमध्यात्ममिति ॥ ३.१॥


तस्मै स होवाचातिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति

तस्मात्तेऽहं ब्रवीमि ॥ ३.२॥


आत्मन एष प्राणो जायते । यथैषा पुरुषे

छायैतस्मिन्नेतदाततं

मनोकृतेनायात्यस्मिञ्शरीरे ॥ ३.३॥


यथा सम्रादेवाधिकृतान् विनियुङ्क्ते । एतन् ग्रामानोतान्

ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक्

पृथगेव सन्निधत्ते ॥ ३.४॥


पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं

प्रातिष्ठते मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति

तस्मादेताः सप्तार्चिषो भवन्ति ॥ ३.५॥


हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनां तासां शतं

शतमेकैकस्या द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि

भवन्त्यासु व्यानश्चरति ॥ ३.६॥


अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन

पापमुभाभ्यामेव मनुष्यलोकम् ॥ ३.७॥


आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं

प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्य

अपानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ३.८॥


तेजो ह वा उदानस्तस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसि

सम्पद्यमानैः ॥ ३.९॥


यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना

तथासङ्कल्पितं लोकं नयति ॥ ३.१०॥


य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो

भवति तदेषः श्लोकः ॥ ३.११॥


उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।

अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते

विज्ञायामृतमश्नुत इति ॥ ३.१२॥


इति प्रश्नोपनिषदि तृतीयः प्रश्नः ॥


चतुर्थः प्रश्नः ।


अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषे

कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान् पश्यति

कस्यैतत् सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ ४.१॥


तस्मै स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा

एतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवं

ह वै तत् सर्वं परे देवे मनस्येकीभवति तेन तर्ह्येष पुरुषो न

श‍ृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते

नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ ४.२॥


प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो

व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः

प्राणः ॥ ४.३॥


यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो ह

वाव यजमानः । इष्टफलमेवोदानः । स एनं यजमानमहरहर्ब्रह्म

गमयति ॥ ४.४॥


अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं

दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुश‍ृणोति

देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं

चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च

सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ ४.५॥


स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वप्नान्न

पश्यत्यथ यदैतस्मिञ्शरीर एतत्सुखं भवति ॥ ४.६॥


स यथा सोभ्य वयांसि वसोवृक्षं सम्प्रतिष्ठन्ते । एवं

ह वै तत् सर्वं पर आत्मनि सम्प्रतिष्ठते ॥ ४.७॥


पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च

वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं

च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च

रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ

चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च

यादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं

चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च

विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥ ४.८॥


एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता

विज्ञानात्मा पुरुषः । स परेऽक्षर आत्मनि सम्प्रतिष्ठते ॥ ४.९॥


परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं

शुभ्रमक्षरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति ।

तदेष श्लोकः ॥ ४.१०॥


विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र

तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥ ४.११॥


इति प्रश्नोपनिषदि चतुर्थः प्रश्नः ॥


पञ्चमः प्रश्नः ।


अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै

तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वाव

स तेन लोकं जयतीति । तस्मै स होवाच ॥ ५.१॥


एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः ।

तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ ५.२॥


स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव

जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र

तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥ ५.३॥


अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं

यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभुतिमनुभूय

पुनरावर्तते ॥ ५.४॥


यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभि-

ध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यत

एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं

स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते । तदेतौ

श्लोकौ भवतः ॥ ५.५॥


तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता

अन्योन्यसक्ताः अनविप्रयुक्ताः ।

क्रियासु बाह्याभ्यन्तरमध्यमासु

सम्यक् प्रयुक्तासु न कम्पते ज्ञः ॥ ५.६॥


ऋग्भिरेतं यजुर्भिरन्तरिक्षं

सामभिर्यत् तत् कवयो वेदयन्ते ।

तमोङ्कारेणैवायतनेनान्वेति विद्वान्

यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ५.७॥


इति प्रश्नोपनिषदि पञ्चमः प्रश्नः ॥


षष्ठः प्रश्नः ।


अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः

कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं

भारद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रुवं नाहमिमं वेद ।

यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति । समूलो वा एष

परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हम्यनृतं वक्तुम् । स

तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष

इति ॥ ६.१॥


तस्मै स होवाचेहैवान्तःशरीरे सोम्य स पुरुषो

यस्मिन्नताः षोडशकलाः प्रभवन्तीति ॥ ६.२॥


स ईक्षाचक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि

कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ ६.३॥


स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं

मनः । अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च

॥ ६.४॥


स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं

गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य

परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति

भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो

भवति तदेष श्लोकः ॥ ६.५॥


अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः ।

तं वेद्यं पुरुषं वेद यथ मा वो मृत्युः परिव्यथा इति ॥ ६.६॥


तान् होवाचैतावदेवाहमेतत् परं ब्रह्म वेद । नातः

परमस्तीति ॥ ६.७॥


ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं

तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ६.८॥


इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥


ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्तुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥


स्वस्ति न इन्द्रो वृद्धश्रवाः

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः

स्वस्ति नो बृहस्पतिर्दधातु ॥


ॐ शान्तिः शान्तिः शान्तिः ॥

4 次查看0 則留言

相關文章

查看全部

०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथ

०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनू

०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैर

bottom of page