top of page

००६ । माण्डूक्योपनिषत्

माण्डूक्योपनिषत्


ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥


भद्रं नो अपि वातय मनः ॥


ॐ शान्तिः शान्तिः शान्तिः ।


॥ अथ माण्डूक्योपनिषत् ॥


हरिः ॐ ।

ॐ इत्येतदक्षरमिदꣳ सर्वं तस्योपव्याख्यानं

भूतं भवद् भविष्यदिति सर्वमोङ्कार एव

यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १॥


सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २॥


जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः

स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३॥


स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः

प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४॥


यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं

पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन

एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५॥


एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य

प्रभवाप्ययौ हि भूतानाम् ॥ ६॥


नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं

न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं

अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं

शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७॥


सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा

अकार उकारो मकार इति ॥ ८॥


जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्

वाऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ ९॥


स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षात्

उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति

नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १०॥


सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा

मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११॥


अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत

एवमोङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १२॥


॥ इति माण्डूक्योपनिषत् समाप्ता ॥

5 次查看0 則留言

相關文章

查看全部

०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथ

०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनू

०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैर

bottom of page