top of page

००९ । छान्दोग्योपनिषत् । चतुर्थोऽध्यायः

॥ चतुर्थोऽध्यायः ॥


जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस

स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव

मेऽन्नमत्स्यन्तीति ॥ ४.१.१॥


अथ हꣳसा निशायामतिपेतुस्तद्धैवꣳ हꣳ सोहꣳ समभ्युवाद

हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य

समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा

मा प्रधाक्षीरिति ॥ ४.१.२॥


तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तꣳ सयुग्वानमिव

रैक्वमात्थेति यो नु कथꣳ सयुग्वा रैक्व इति ॥ ४.१.३॥


यथा कृतायविजितायाधरेयाः संयन्त्येवमेनꣳ सर्वं

तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद

यत्स वेद स मयैतदुक्त इति ॥ ४.१.४॥


तदु ह जानश्रुतिः पौत्रायण उपशुश्राव

स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव

रैक्वमात्थेति यो नु कथꣳ सयुग्वा रैक्व इति ॥ ४.१.५॥


यथा कृतायविजितायाधरेयाः संयन्त्येवमेनꣳ सर्वं

तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद

यत्स वेद स मयैतदुक्त इति ॥ ४.१.६॥


स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तꣳ होवाच

यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ४.१.७॥


सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश

तꣳ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व

इत्यहꣳ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति

प्रत्येयाय ॥ ४.१.८ ॥


॥ इति प्रथमः खण्डः ॥

तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां

निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तꣳ हाभ्युवाद ॥ ४.२.१॥


रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु

म एतां भगवो देवताꣳ शाधि यां देवतामुपास्स इति ॥ ४.२.२॥


तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह

गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः

सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय

प्रतिचक्रमे ॥ ४.२.३॥


तꣳ हाभ्युवाद रैक्वेदꣳ सहस्रं गवामयं

निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो

यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४.२.४ ॥


तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव

मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम

महावृषेषु यत्रास्मा उवास स तस्मै होवाच ॥ ४.२.५ ॥


॥ इति द्वितीयः खण्डः ॥

वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति

यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति

वायुमेवाप्येति ॥ ४.३.१॥


यदाप उच्छुष्यन्ति वायुमेवापियन्ति

वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ ४.३.२॥


अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव

वागप्येति प्राणं चक्षुः प्राणꣳ श्रोत्रं प्राणं मनः प्राणो

ह्येवैतान्सर्वान्संवृङ्क्त इति ॥ ४.३.३॥


तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४.३.४॥


अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं

परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ४.३.५॥


स होवाच महात्मनश्चतुरो देव एकः कः स जगार

भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या

अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा

एतन्न दत्तमिति ॥ ४.३.६॥


तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां

जनिता प्रजानाꣳ हिरण्यदꣳष्ट्रो बभसोऽनसूरिर्महान्तमस्य

महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं

ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ४.३.७॥


तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश

सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतꣳ सैषा

विराडन्नादी तयेदꣳ सर्वं दृष्टꣳ सर्वमस्येदं दृष्टं

भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ४.३.८॥


॥ इति तृतीयः खण्डः ॥

सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे

ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति ॥ ४.४.१॥


सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि

बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे

साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि

सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो

ब्रवीथा इति ॥ ४.४.२॥


स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति

वत्स्याम्युपेयां भगवन्तमिति ॥ ४.४.३॥


तꣳ होवाच किंगोत्रो नु सोम्यासीति स होवाच

नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरꣳ

सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने

त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु

नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहꣳ

सत्यकामो जाबालोऽस्मि भो इति ॥ ४.४.४॥


तꣳ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधꣳ

सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय

कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः

सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच

नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा

सहस्रꣳ सम्पेदुः ॥ ४.४.५॥


॥ इति चतुर्थः खण्डः ॥

अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति

भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रꣳ स्मः

प्रापय न आचार्यकुलम् ॥ ४.५.१॥


ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति

तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला

दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः

पादो ब्रह्मणः प्रकाशवान्नाम ॥ ४.५.२॥


स य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणः

प्रकाशवानित्युपास्ते प्रकाशवानस्मिꣳल्लोके भवति

प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं

पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ४.५.३॥


॥ इति पञ्चमः खण्डः ॥

अग्निष्टे पादं वक्तेति स ह श्वोभूते ग

आभिप्रस्थापयांचकार ता यत्राभि सायं

बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय

पश्चादग्नेः प्राङुपोपविवेश ॥ ४.६.१॥


तमग्निरभ्युवाद सत्यकाम३ इति भगव इति

ह प्रतिशुश्राव ॥ ४.६.२॥


ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति

तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला

समुद्रः कलैष वै सोम्य चतुष्कलः पादो

ब्रह्मणोऽनन्तवान्नाम ॥ ४.६.३॥


स य एतमेवं विद्वाꣳश्चतुष्कलं पादं

ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिꣳल्लोके

भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं

पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४.६.४॥


॥ इति षष्ठः खण्डः ॥

हꣳसस्ते पादं वक्तेति स ह श्वोभूते गा

अभिप्रस्थापयांचकार ता यत्राभि सायं

बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय

पश्चादग्नेः प्राङुपोपविवेश ॥ ४.७.१॥


तꣳहꣳस उपनिपत्याभ्युवाद सत्यकाम३ इति भगव

इति ह प्रतिशुश्राव ॥ ४.७.२॥


ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति

तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला

विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो

ज्योतिष्मान्नाम ॥ ४.७.३॥


स य एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मणो

ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिꣳल्लोके भवति

ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाꣳश्चतुष्कलं

पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४.७.४॥


॥ इति सप्तमः खण्डः ॥

मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार

ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा

उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४.८.१॥


तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति

ह प्रतिशुश्राव ॥ ४.८.२॥


ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति

तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः

कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ४.८.३॥


स यै एतमेवं विद्वाꣳश्चतुष्कलं पादं ब्रह्मण

आयतनवानित्युपास्त आयतनवानस्मिꣳल्लोके

भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं

विद्वाꣳश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४.८.४॥


॥ इति अष्टमः खण्डः ॥

प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति

भगव इति ह प्रतिशुश्राव ॥ ४.९.१॥


ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये

मनुष्येभ्य इति ह प्रतिजज्ञे भगवाꣳस्त्वेव मे कामे ब्रूयात् ॥ ४.९.२॥


श्रुतꣳह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता

साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन

वीयायेति वीयायेति ॥ ४.९.३॥


॥ इति नवमः खण्डः ॥

उपकोसलो ह वै कामलायनः सत्यकामे जाबाले

ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार

स ह स्मान्यानन्तेवासिनः समावर्तयꣳस्तं ह स्मैव न

समावर्तयति ॥ ४.१०.१॥


तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा

त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव

प्रवासांचक्रे ॥ ४.१०.२॥


स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच

ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच

बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधीभिः

प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ४.१०.३॥


अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः

पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म

कं ब्रह्म खं ब्रह्मेति ॥ ४.१०.४॥


स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न

विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव

कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ४.१०.५॥


॥ इति दशमः खण्डः ॥

अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य

इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स

एवाहमस्मीति ॥ ४.११.१॥


स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति

सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप

वयं तं भुञ्जामोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं

विद्वानुपास्ते ॥ ४.११.२॥


॥ इति एकादशः खण्डः ॥

अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि

चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि

स एवाहमस्मीति ॥ ४.१२.१॥


स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति

सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप

वयं तं भुञ्जामोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं

विद्वानुपास्ते ॥ ४.१२.२॥


॥ इति द्वादशः खण्डः ॥

अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति

य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स

एवाहमस्मीति ॥ ४.१३.१॥


स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति

सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप

वयं तं भुञ्जामोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं

विद्वानुपास्ते ॥ ४.१३.२॥


॥ इति त्रयोदशः खण्डः ॥

ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या

चाचार्यस्तु ते गतिं वक्तेत्याजगाम

हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति ॥ ४.१४.१॥


भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति

को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव

निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे

किं नु सोम्य किल तेऽवोचन्निति ॥ ४.१४.२॥


इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं

तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त

एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे

भगवानिति तस्मै होवाच ॥ ४.१४.३॥


॥ इति चतुर्दशः खण्डः ॥

य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति

होवाचैतदमृतमभयमेतद्ब्रह्मेति

तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव

गच्छति ॥ ४.१५.१॥


एतꣳ संयद्वाम इत्याचक्षत एतꣳ हि सर्वाणि

वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति

य एवं वेद ॥ ४.१५.२॥


एष उ एव वामनीरेष हि सर्वाणि वामानि नयति

सर्वाणि वामानि नयति य एवं वेद ॥ ४.१५.३॥


एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति

सर्वेषु लोकेषु भाति य एवं वेद ॥ ४.१५.४॥


अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च

नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न

आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति

मासाꣳस्तान्मासेभ्यः संवत्सरꣳ

संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं

तत् पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो

ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते

नावर्तन्ते ॥ ४.१५.५॥


॥ इति पञ्चदशः खण्डः ॥

एष ह वै यज्ञो योऽयं पवते एष ह यन्निदꣳ सर्वं पुनाति

यदेष यन्निदꣳ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य

मनश्च वाक्च वर्तनी ॥ ४.१६.१॥


तयोरन्यतरां मनसा सꣳस्करोति ब्रह्मा वाचा

होताध्वर्युरुद्गातान्यतराꣳस यत्रौपाकृते प्रातरनुवाके

पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ ४.१६.२॥


अन्यतरामेव वर्तनीꣳ सꣳस्करोति हीयतेऽन्यतरा

स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो

रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञꣳ रिष्यन्तं

यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ४.१६.३॥


अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा

व्यवदत्युभे एव वर्तनी सꣳस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४.१६.४॥


स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः

प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं

यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ४.१६.५॥


॥ इति षोडशः खण्डः ॥

प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाꣳ

रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः ॥ ४.१७.१॥


स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाꣳ

रसान्प्रावृहदग्नेरृचो वायोर्यजूꣳषि सामान्यादित्यात् ॥ ४.१७.२॥


स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया

रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति

सामभ्यः ॥ ४.१७.३॥


तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव

तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टꣳ संदधाति ॥ ४.१७.४॥


स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ

जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य

विरिष्टꣳ संदधाति ॥ ४.१७.५॥


अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये

जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य

विरिष्टं संदधाति ॥ ४.१७.६॥


तद्यथा लवणेन सुवर्णꣳ संदध्यात्सुवर्णेन रजतꣳ

रजतेन त्रपु त्रपुणा सीसꣳ सीसेन लोहं लोहेन दारु

दारु चर्मणा ॥ ४.१७.७॥


एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया

वीर्येण यज्ञस्य विरिष्टꣳ संदधाति भेषजकृतो ह वा

एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ४.१७.८॥


एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदꣳ

ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते

तत्तद्गच्छति ॥ ४.१७.९॥


मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध

वै ब्रह्मा यज्ञं यजमानꣳ सर्वाꣳश्चर्त्विजोऽभिरक्षति

तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ ४.१७.१०॥


॥ इति चतुर्थोऽध्यायः ॥

1 次查看0 則留言

相關文章

查看全部

०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथ

०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनू

०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैर

bottom of page