top of page

०१८ । नारायणाथर्वशीर उपनिषत्


(नारायणोपनिषत् अथवा नारायण अथर्वशीर्ष )


नारायणाथर्वशीर उपनिषत्


कृष्णयजुर्वेदीया


ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥


ॐ शान्तिः शान्तिः शान्तिः ॥


(प्रथमः खण्डः

नारायणात् सर्वचेतनाचेतनजन्म)


ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति ।

नारायणात्प्राणो जायते । मनः सर्वेन्द्रियाणि च ।

खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ।

नारायणाद् ब्रह्मा जायते । नारायणाद् रुद्रो जायते ।

नारायणादिन्द्रो जायते । नारायणात्प्रजापतयः प्रजायन्ते ।

नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दाꣳसि ।

नारायणादेव समुत्पद्यन्ते । नारायणे प्रवर्तन्ते । नारायणे प्रलीयन्ते ॥


(एतदृग्वेदशिरोऽधीते ।)


(द्वितीयः खण्डः

नारायणस्य सर्वात्मत्वम्)


ॐ । अथ नित्यो नारायणः । ब्रह्मा नारायणः । शिवश्च नारायणः ।

शक्रश्च नारायणः । द्यावापृथिव्यौ च नारायणः ।

कालश्चर्न् षन्स्क्रित्! ळोवे षन्स्क्रित्!! ळिवे षन्स्क्रित्!!!

ह्त्त्प्://व्व्व्।सन्स्क्रित्दोचुमेन्त्स्।ओर्ग् नारायणः । दिशश्च नारायणः । ऊर्ध्वंश्च नारायणः ।

अधश्च नारायणः । अन्तर्बहिश्च नारायणः । नारायण एवेदꣳ सर्वम् ।

यद्भूतं यच्च भव्यम् । निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः

शुद्धो देव एको नारायणः । न द्वितीयोऽस्ति कश्चित् । य एवं वेद ।

स विष्णुरेव भवति स विष्णुरेव भवति ॥

(एतद्यजुर्वेदशिरोऽधीते ।)


(तृतीयः खण्डः

नारायणाष्टाक्षरमन्त्रः)


ओमित्यग्रे व्याहरेत् । नम इति पश्चात् । नारायणायेत्युपरिष्टात् ।

ओमित्येकाक्षरम् । नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि ।

एतद्वै नारायणस्याष्टाक्षरं पदम् ।

यो ह वै नारायणस्याष्टाक्षरं पदमध्येति । अनपब्रुवस्सर्वमायुरेति ।

विन्दते प्राजापत्यꣳ रायस्पोषं गौपत्यम् ।

ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । य एवं वेद ॥


(एतत्सामवेदशिरोऽधीते । ओं नमो नारायणाय)


(चतुर्थः खण्डः

नारायणप्रणवः)


प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् । अकार उकार मकार इति ।

तानेकधा समभरत्तदेतदोमिति ।

यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ।

ॐ नमो नारायणायेति मन्त्रोपासकः । वैकुण्ठभुवनलोकं गमिष्यति ।

तदिदं परं पुण्डरीकं विज्ञानघनम् । तस्मात्तटिदाभमात्रम् ।

( bhAshya तस्मात् तटिदिव प्रकाशमात्रम्)

ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । var ब्रह्मण्यो मधुसूदनओम्

ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्यत इति ।

सर्वभूतस्थमेकं नारायणम् । कारणरूपमकार परं ब्रह्म ॐ ।

एतदथर्वशिरोयोऽधीते ॥


विद्याऽध्ययनफलम् ।


प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायमधीयानो दिवसकृतं पापं नाशयति ।

तत्सायंप्रातरधीयानोऽपापो भवति ।

माध्यन्दिनमादित्याभिमुखोऽधीयानः (मध्यन्दिन)

पञ्चमहापातकोपपातकात् प्रमुच्यते ।

सर्व वेद पारायण पुण्यं लभते ।

नारायणसायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति ।

य एवं वेद । इत्युपनिषत् ॥


ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥


ॐ शान्तिः शान्तिः शान्तिः ॥


शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

6 次查看0 則留言

相關文章

查看全部

०२५ । मैत्रायण्युपनिषत्

मैत्रायण्युपनिषत् ॥ अथ मैत्रायण्युपनिषत् ॥ सामवेदीय सामान्य उपनिषत् ॥ वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः । यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथ

०२४ । अथर्वशिखोपनिषत्

अथर्वशिखोपनिषत् ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनू

०२३ । अथर्वशिरोपनिषत्

अथर्वशिरोपनिषत् शिवाथर्वशीर्षं च अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैर

bottom of page